Loading...
ऋग्वेद मण्डल - 3 के सूक्त 49 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 3/ सूक्त 49/ मन्त्र 1
    ऋषिः - गोपवन आत्रेयः सप्तवध्रिर्वा देवता - इन्द्र: छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    शंसा॑ म॒हामिन्द्रं॒ यस्मि॒न्विश्वा॒ आ कृ॒ष्टयः॑ सोम॒पाः काम॒मव्य॑न्। यं सु॒क्रतुं॑ धि॒षणे॑ विभ्वत॒ष्टं घ॒नं वृ॒त्राणां॑ ज॒नय॑न्त दे॒वाः॥

    स्वर सहित पद पाठ

    शंसा॑ । म॒हाम् । इन्द्र॑म् । यस्मि॑न् । विश्वाः॑ । आ । कृ॒ष्टयः॑ । सो॒म॒ऽपाः । काम॑म् । अव्य॑न् । यम् । सु॒ऽक्रतु॑म् । धि॒षणे॑ । वि॒भ्व॒ऽत॒ष्टम् । घ॒नम् । वृ॒त्राणा॑म् । ज॒नय॑न्त । दे॒वाः ॥


    स्वर रहित मन्त्र

    शंसा महामिन्द्रं यस्मिन्विश्वा आ कृष्टयः सोमपाः काममव्यन्। यं सुक्रतुं धिषणे विभ्वतष्टं घनं वृत्राणां जनयन्त देवाः॥

    स्वर रहित पद पाठ

    शंसा। महाम्। इन्द्रम्। यस्मिन्। विश्वाः। आ। कृष्टयः। सोमऽपाः। कामम्। अव्यन्। यम्। सुऽक्रतुम्। धिषणे। विभ्वऽतष्टम्। घनम्। वृत्राणाम्। जनयन्त। देवाः॥

    ऋग्वेद - मण्डल » 3; सूक्त » 49; मन्त्र » 1
    अष्टक » 3; अध्याय » 3; वर्ग » 13; मन्त्र » 1

    अन्वयः - हे विद्वन् ! यस्मिन् विश्वाः सोमपाः कृष्टयः काममाव्यन् वृत्राणां घनं विभ्वतष्टं महामिन्द्रं धिषणे प्रकाशयन्तं सूर्य्यमिव विद्यानीती प्रकाशय यं सुक्रतुं देवा जनयन्त तं राजानं त्वं शंस ॥१॥

    पदार्थः -
    (शंस) स्तुहि। अत्र द्व्यचोऽतस्तिङ इति दीर्घः। (महाम्) महान्तं पूजनीयम् (इन्द्रम्) राजानम् (यस्मिन्) (विश्वाः) समग्राः (आ) समन्तात् (कृष्टयः) मनुष्याः (सोमपाः) ऐश्वर्य्यपालकाः (कामम्) अभिलाषम् (अव्यन्) कामयन्ताम् (यम्) (सुक्रतुम्) शोभनकर्मकर्त्तृप्रज्ञम् (धिषणे) द्यावापृथिव्याविव विद्यानीती (विभ्वतष्टम्) विभुना जगदीश्वरेण निर्मितम् (घनम्) घनीभूतम् (वृत्राणाम्) मेघानाम् (जनयन्त) जनयन्ति (देवाः) विद्वांसः ॥१॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। हे विद्वांसो ! यथा महानेकः सूर्य्यः प्रत्येकभूगोले स्थितान् मेघान् हन्ति प्राणिनां सुखं जनयति तथैव राजा दुष्टान् हत्वा श्रेष्ठानामिच्छां प्रपूर्य्याऽऽनन्दयति ॥१॥

    इस भाष्य को एडिट करें
    Top