ऋग्वेद - मण्डल 3/ सूक्त 6/ मन्त्र 11
ऋषिः - गाथिनो विश्वामित्रः
देवता - अग्निः
छन्दः - भुरिक्पङ्क्ति
स्वरः - पञ्चमः
इळा॑मग्ने पुरु॒दंसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध। स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे॥
स्वर सहित पद पाठइळा॑म् । अ॒ग्ने॒ । पु॒रु॒ऽदंस॑म् । स॒निम् । गोः । श॒श्व॒त्ऽत॒मम् । हव॑मानाय । सा॒ध॒ । स्यात् । नः॒ । सू॒नुः । तन॑यः । वि॒जाऽवा॑ । अ॒ग्ने॒ । सा । ते॒ । सु॒ऽम॒तिः । भू॒तु॒ । अ॒स्मे इति॑ ॥
स्वर रहित मन्त्र
इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध। स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे॥
स्वर रहित पद पाठइळाम्। अग्ने। पुरुऽदंसम्। सनिम्। गोः। शश्वत्ऽतमम्। हवमानाय। साध। स्यात्। नः। सूनुः। तनयः। विजाऽवा। अग्ने। सा। ते। सुऽमतिः। भूतु। अस्मे इति॥
ऋग्वेद - मण्डल » 3; सूक्त » 6; मन्त्र » 11
अष्टक » 2; अध्याय » 8; वर्ग » 27; मन्त्र » 6
अष्टक » 2; अध्याय » 8; वर्ग » 27; मन्त्र » 6
विषयः - पुनस्तमेव विषयमाह।
अन्वयः - हे अग्ने त्वं हवमानाय गोः शश्वत्तमं पुरुदंसं सनिमिळां च साध यतो नो विजावा सूनुस्तनयः स्यात्। हे अग्ने या ते सुमतिर्वर्त्तते साऽस्मे भूतु ॥११॥
पदार्थः -
(इळाम्) स्तोतुमर्हां भूमिम् (अग्ने) विद्वन् (पुरुदंसम्) बहुकर्मयुक्तम् (सनिम्) विभक्तम् (गोः) पृथिव्याः (शश्वत्तमम्) अतिशयेनानादिभूतं स्वरूपम् (हवमानाय) स्पर्द्धमानाय (साध) साध्नुहि (स्यात्) (नः) अस्माकम् (सूनुः) (तनयः) (विजावा) (अग्ने) (सा) (ते) तव (सुमतिः) (भूतु) (अस्मे) अस्मासु ॥११॥
भावार्थः - यदि मनुष्या अग्नेः पृथिव्यादेश्च स्वरूपं विज्ञाय कार्य्येषु संप्रयुञ्जीरंस्तर्हि तेषु पुत्रपौत्रधनधान्यविद्यैश्वर्य्यं प्रभूतं भवेदिति॥११॥ अत्र विद्वदग्निगुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इति तृतीयमण्डले षष्ठं सूक्तं सप्तविंशो वर्गो द्वितीयेऽष्टकेऽष्टमोऽध्यायो द्वितीयमष्टकं च पूर्तिमगात् ॥
इस भाष्य को एडिट करें