Loading...
ऋग्वेद मण्डल - 4 के सूक्त 11 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 4/ सूक्त 11/ मन्त्र 5
    ऋषिः - वामदेवो गौतमः देवता - अग्निः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    त्वाम॑ग्ने प्रथ॒मं दे॑व॒यन्तो॑ दे॒वं मर्ता॑ अमृत म॒न्द्रजि॑ह्वम्। द्वे॒षो॒युत॒मा वि॑वासन्ति धी॒भिर्दमू॑नसं गृ॒हप॑ति॒ममू॑रम् ॥५॥

    स्वर सहित पद पाठ

    त्वाम् । अ॒ग्ने॒ । प्र॒थ॒मम् । दे॒व॒ऽयन्तः॑ । दे॒वम् । भर्ता॑ । अ॒मृ॒त॒ । म॒न्द्रऽजि॑ह्वम् । द्वे॒षः॒ऽयुत॑म् । आ । वि॒वा॒स॒न्ति॒ । धी॒भिः । दमू॑नसम् । गृ॒हऽप॑तिम् । अमू॑रम् ॥


    स्वर रहित मन्त्र

    त्वामग्ने प्रथमं देवयन्तो देवं मर्ता अमृत मन्द्रजिह्वम्। द्वेषोयुतमा विवासन्ति धीभिर्दमूनसं गृहपतिममूरम् ॥५॥

    स्वर रहित पद पाठ

    त्वाम्। अग्ने। प्रथमम्। देवऽयन्तः। देवम्। मर्ताः। अमृत। मन्द्रऽजिह्वम्। द्वेषःयुतम्। आ। विवासन्ति। धीभिः। दमूऽनसम्। गृहऽपतिम्। अमूरम् ॥५॥

    ऋग्वेद - मण्डल » 4; सूक्त » 11; मन्त्र » 5
    अष्टक » 3; अध्याय » 5; वर्ग » 11; मन्त्र » 5

    अन्वयः - हे अमृताग्ने ! ये धीभिर्मन्द्रजिह्वं द्वेषोयुतं दमूनसममूरं प्रथमं देवं गृहपतिं त्वां देवयन्तो मर्त्ता आविवासन्ति तांस्त्वमपि सेवस्व ॥५॥

    पदार्थः -
    (त्वाम्) (अग्ने) परमविद्वन् (प्रथमम्) आदिमम् (देवयन्तः) कामयमानाः (देवम्) कमनीयम् (मर्त्ताः) मनुष्याः (अमृत) स्वात्मस्वरूपेण नाशरहित (मन्द्रजिह्वम्) मन्द्रा आनन्दजनिका जिह्वा वाणी यस्य (द्वेषोयुतम्) द्वेषादिभी रहितम् (आ) (विवासन्ति) परिचरन्ति (धीभिः) कर्मभिः प्रज्ञाभिर्वा (दमूनसम्) दमनशीलम् (गृहपतिम्) गृहस्वामिनम् (अमूरम्) मूढतादिदोषरहितं विद्वांसम् ॥५॥

    भावार्थः - ये विद्वांसो भूत्वा गृहस्थान् बोधयित्वा सर्वेषां सन्तानान् ब्रह्मचर्येण सुशिक्षां विद्यां ग्राहयित्वाऽविद्यादिदोषान् निवार्य्य शमादिशुभगुणान्वितान् कुर्वन्ति त एवात्र कमनीया भवन्ति ॥५॥

    इस भाष्य को एडिट करें
    Top