ऋग्वेद - मण्डल 4/ सूक्त 12/ मन्त्र 6
यथा॑ ह॒ त्यद्व॑सवो गौ॒र्यं॑ चित्प॒दि षि॒ताममु॑ञ्चता यजत्राः। ए॒वो ष्व१॒॑स्मन्मु॑ञ्चता॒ व्यंहः॒ प्र ता॑र्यग्ने प्रत॒रं न॒ आयुः॑ ॥६॥
स्वर सहित पद पाठयथा॑ । ह॒ । त्यत् । व॒स॒वः॒ । गौ॒र्य॑म् । चि॒त् । प॒दि । सि॒ताम् । अमु॑ञ्चत । य॒ज॒त्राः॒ । ए॒वो इति॑ । सु । अ॒स्मत् । मु॒ञ्च॒त॒ । वि । अंहः॑ । प्र । ता॒रि॒ । अ॒ग्ने॒ । प्र॒ऽत॒रम् । नः॒ । आयुः॑ ॥
स्वर रहित मन्त्र
यथा ह त्यद्वसवो गौर्यं चित्पदि षिताममुञ्चता यजत्राः। एवो ष्व१स्मन्मुञ्चता व्यंहः प्र तार्यग्ने प्रतरं न आयुः ॥६॥
स्वर रहित पद पाठयथा। ह। त्यत्। वसवः। गौर्यम्। चित्। पदि। सिताम्। अमुञ्चत। यजत्राः। एवो इति। सु। अस्मत्। मुञ्चत। वि। अंहः। प्र। तारि। अग्ने। प्रऽतरम्। नः। आयुः ॥६॥
ऋग्वेद - मण्डल » 4; सूक्त » 12; मन्त्र » 6
अष्टक » 3; अध्याय » 5; वर्ग » 12; मन्त्र » 6
अष्टक » 3; अध्याय » 5; वर्ग » 12; मन्त्र » 6
विषयः - पुनस्तमेव विषयमाह ॥
अन्वयः - हे अग्ने ! यथा त्वया नः प्रतरमायुः प्रतार्यंहः प्रतारि तथा वयं तव प्रतरमायुरपराधं च प्रतारयेम। हे यजत्रा वसवो ! यथा यूयं त्यदंहो हामुञ्चत पदि चित्सितां गौर्यं प्राप्नुत तथाऽस्मदंहः सुविमुञ्चत तथैवो वयमति पापं त्यक्त्वा सुशिक्षितां वाचं प्राप्नुयाम ॥६॥
पदार्थः -
(यथा) (ह) खलु (त्यत्) तत् (वसवः) निवसन्तः (गौर्यम्) गौरीं वाचम्। गौरीति वाङ्नामसु पठितम्। (निघं०१.११) (चित्) (पदि) प्राप्तव्ये विज्ञाने (सिताम्) शब्दार्थविज्ञानसम्बन्धिनीम् (अमुञ्चता) त्यजत। अत्र संहितायामिति दीर्घः। (यजत्राः) विदुषां सत्कर्तारः (एवो) एव (सु) (अस्मत्) (मुञ्चता) त्यजत। अत्र संहितायामिति दीर्घः। (वि) (अंहः) (प्र) (तारि) प्लूयते (अग्ने) विद्वन् (प्रतरम्) प्रतरन्ति येन तत् (नः) अस्माकम् (आयुः) जीवनम् ॥६॥
भावार्थः - अत्रोपमालङ्कारः । हे मनुष्या ! यथा धार्मिका आप्ता विद्वांसः पापाचरणं विहाय सत्यमाचरन्त्यन्यान् स्वसदृशान् कर्त्तुमिच्छन्ति तथैव भवन्तोऽप्याचरन्तु ॥६॥ अत्राग्निराजविद्वद्गुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥६॥ इति द्वादशं सूक्तं द्वादशो वर्गश्च समाप्तः ॥
इस भाष्य को एडिट करें