ऋग्वेद - मण्डल 4/ सूक्त 14/ मन्त्र 1
ऋषिः - वामदेवो गौतमः
देवता - अग्निर्लिङ्गोक्ता वा
छन्दः - भुरिक्पङ्क्ति
स्वरः - पञ्चमः
प्रत्य॒ग्निरु॒षसो॑ जा॒तवे॑दा॒ अख्य॑द्दे॒वो रोच॑माना॒ महो॑भिः। आ ना॑सत्योरुगा॒या रथे॑ने॒मं य॒ज्ञमुप॑ नो यात॒मच्छ॑ ॥१॥
स्वर सहित पद पाठप्रति॑ । अ॒ग्निः । उ॒षसः॑ । जा॒तऽवे॑दाः । अख्य॑त् । दे॒वः । रोच॑मानाः । महः॑ऽभिः । आ । ना॒स॒त्या॒ । उ॒रु॒ऽगा॒या । रथे॑न । इ॒मम् । य॒ज्ञम् । उप॑ । नः॒ । या॒त॒म् । अच्छ॑ ॥
स्वर रहित मन्त्र
प्रत्यग्निरुषसो जातवेदा अख्यद्देवो रोचमाना महोभिः। आ नासत्योरुगाया रथेनेमं यज्ञमुप नो यातमच्छ ॥१॥
स्वर रहित पद पाठप्रति। अग्निः। उषसः। जातऽवेदाः। अख्यत्। देवः। रोचमानाः। महःऽभिः। आ। नासत्या। उरुऽगाया। रथेन। इमम्। यज्ञम्। उप। नः। यातम्। अच्छ ॥१॥
ऋग्वेद - मण्डल » 4; सूक्त » 14; मन्त्र » 1
अष्टक » 3; अध्याय » 5; वर्ग » 14; मन्त्र » 1
अष्टक » 3; अध्याय » 5; वर्ग » 14; मन्त्र » 1
विषयः - अथाग्निसादृश्येन विद्वद्गुणानाह ॥
अन्वयः - हे नासत्योरुगायाध्यापकोपदेशकौ ! युवां महोभी रथेन न इमं यज्ञं जातवेदा देवोऽग्नी रोचमाना उषसः प्रत्यख्यद् दिवाऽच्छोपायातम् ॥१॥
पदार्थः -
(प्रति) (अग्निः) विद्युदिव (उषसः) दिवसमुखस्य (जातवेदाः) उत्पन्नेषु विद्यमानः (अख्यत्) प्रकाशते (देवः) देदीप्यमानः (रोचमानाः) प्रकाशमानाः (महोभिः) महद्भिः (आ) (नासत्या) अविद्यमानसत्याचरणौ (उरुगाया) बहुप्रशंसौ (रथेन) यानेन (इमम्) वर्त्तमानं (यज्ञम्) (उप) (नः) अस्माकम् [(यज्ञम्)] प्रकाश्यप्रकाशकमयं व्यवहारम् (यातम्) प्राप्नुतम् (अच्छ) ॥१॥
भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्या ! ये यथा सूर्य्य उषसो विभाति तथैव सत्येनोपदेशेन रथेन मार्गमिव विद्यां सुखं प्रापयन्ति तेऽत्र जगति कल्याणकरा भवन्ति ॥१॥
इस भाष्य को एडिट करें