ऋग्वेद - मण्डल 4/ सूक्त 17/ मन्त्र 21
नू ष्टु॒त इ॑न्द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३॒॑ न पी॑पेः। अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्यः॑ सदा॒साः ॥२१॥
स्वर सहित पद पाठनु । स्तु॒तः । इ॒न्द्र॒ । नु । गृ॒णा॒नः । इष॑म् । ज॒रि॒त्रे । न॒द्यः॑ । न । पी॒पे॒रिति॑ पीपेः । अका॑रि । ते॒ । ह॒रि॒ऽवः॒ । ब्रह्म॑ । नव्य॑म् । धि॒या । स्या॒म॒ । र॒थ्यः॑ । स॒दा॒ऽसाः ॥
स्वर रहित मन्त्र
नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो३ न पीपेः। अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥२१॥
स्वर रहित पद पाठनु। स्तुतः। इन्द्र। नु। गृणानः। इषम्। जरित्रे। नद्यः। न। पीपेरिति पीपेः। अकारि। ते। हरिऽवः। ब्रह्म। नव्यम्। धिया। स्याम। रथ्यः। सदाऽसाः ॥२१॥
ऋग्वेद - मण्डल » 4; सूक्त » 17; मन्त्र » 21
अष्टक » 3; अध्याय » 5; वर्ग » 24; मन्त्र » 6
अष्टक » 3; अध्याय » 5; वर्ग » 24; मन्त्र » 6
विषयः - अथामात्यादीनामपि कार्यप्रवृत्तिमाह ॥
अन्वयः - हे हरिव इन्द्र ! यो गृणानस्त्वमस्माभिर्नू स्तुतोऽकारि स जरित्रे नद्यो नेषं पीपेः। हे इन्द्र ! त्वया नव्यं ब्रह्म न्वकारि तस्य ते वयं सदासा रथ्यो धियाऽनुकूलाः स्याम ॥२१॥
पदार्थः -
(नू) सद्यः (स्तुतः) प्रशंसितः (इन्द्र) राजन् (नू) अत्र ऋचि तुनुघेत्युभयत्र दीर्घः। (गृणानः) सत्यं स्तुवन् (इषम्) अन्नं विज्ञानं वा (जरित्रे) स्तावकाय (नद्यः) सरितः (न) इव (पीपेः) वर्धय (अकारि) क्रियते (ते) (हरिवः) प्रशस्तमनुष्ययुक्त (ब्रह्म) महद्धनम् (नव्यम्) नूतनम् (धिया) प्रज्ञया कर्मणा वा (स्याम) भवेम (रथ्यः) बहुरथवन्तः (सदासाः) सेवकैः सह वर्त्तमानाः ॥२१॥
भावार्थः - हे मनुष्या ! योऽनुत्तमगुणकर्मस्वभावविद्यः प्रजाहिताय धनाऽन्नानि वर्धयति तस्याऽऽनुकूल्येन वर्त्तित्वा सेनाऽङ्गानि दृढानि सम्पादनीयानीति ॥२१॥ अथेन्द्रराजप्रजाभृत्यगुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥२१॥इति सप्तदशं सूक्तं चतुर्विंशो वर्गश्च समाप्तः ॥
इस भाष्य को एडिट करें