ऋग्वेद - मण्डल 4/ सूक्त 24/ मन्त्र 11
नू ष्टु॒त इ॑न्द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३॒॑ न पी॑पेः। अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्यः॑ सदा॒साः ॥११॥
स्वर सहित पद पाठनु । स्तु॒तः । इ॒न्द्र॒ । नु । गृ॒णा॒नः । इष॑म् । ज॒रि॒त्रे । न॒द्यः॑ । न । पी॒पे॒रिति॑ पीपेः । अका॑रि । ते॒ । ह॒रि॒ऽवः॒ । ब्रह्म॑ । नव्य॑म् । धि॒या । स्या॒म॒ । र॒थ्यः॑ । सदा॒ऽसाः ॥
स्वर रहित मन्त्र
नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो३ न पीपेः। अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥११॥
स्वर रहित पद पाठनु। स्तुतः। इन्द्र। नु। गृणानः। इषम्। जरित्रे। नद्यः। पीपेरिति पीपेः। अकारि। ते। हरिऽवः। ब्रह्म। नव्यम्। धिया। स्याम। रथ्यः। सदाऽसाः ॥११॥
ऋग्वेद - मण्डल » 4; सूक्त » 24; मन्त्र » 11
अष्टक » 3; अध्याय » 6; वर्ग » 12; मन्त्र » 6
अष्टक » 3; अध्याय » 6; वर्ग » 12; मन्त्र » 6
विषयः - पुनस्तमेव विषयमाह ॥
अन्वयः - हे हरिव इन्द्र ! स्तुतो गृणानस्त्वं जरित्रे नद्यो नेषं नु पीपेस्तस्मात्तेऽस्माभिर्धिया नव्यं ब्रह्माकारि त्वया सह रथ्यः सदासा वयमैश्वर्य्यन्तो नु स्याम ॥११॥
पदार्थः -
(नु) अत्रोभयत्र ऋचि तुनुघेति दीर्घः। (स्तुतः) शुद्धव्यवहारेण प्रशंसितः (इन्द्र) ऐश्वर्यमिच्छुक (नु) (गृणानः) पुरुषार्थं स्तुवन् (इषम्) अन्नम् (जरित्रे) याचमानाऽयाचिताय वा (नद्यः) सरितः (न) इव (पीपेः) वर्द्धय (अकारि) क्रियते (ते) तव (हरिवः) प्रशंसितभृत्ययुक्त (ब्रह्म) महद्धनम् (नव्यम्) देशदेशान्तराद् द्वीपद्वीपान्तराद्वा (धिया) व्यवहारज्ञया प्रज्ञया सुष्ठु कृतेन कर्म्मणा वा (स्याम) भवेम (रथ्यः) बहुरथादियुक्ताः (सदासाः) भृत्यैः सहिताः ॥११॥
भावार्थः - हे मनुष्या ! यदि यूयं धनमिच्छत तर्हि धर्म्येण पुरुषार्थेन योग्यां क्रियां सततं कुरुतेति ॥११॥ अत्र ब्रह्मचर्यवतः पुत्रप्रशंसाऽधर्मत्यागेन सुकर्मणा प्रज्ञैश्वर्यधनं युक्ताऽहारविहारः शत्रुविजयो ज्येष्ठकनिष्ठव्यवहारश्चोक्तोऽत एतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥११॥ इति चतुर्विंशं सूक्तं द्वादशो वर्गश्च समाप्तः ॥
इस भाष्य को एडिट करें