ऋग्वेद - मण्डल 4/ सूक्त 24/ मन्त्र 9
ऋषिः - वामदेवो गौतमः
देवता - इन्द्र:
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
भूय॑सा व॒स्नम॑चर॒त्कनी॒योऽवि॑क्रीतो अकानिषं॒ पुन॒र्यन्। स भूय॑सा॒ कनी॑यो॒ नारि॑रेचीद्दी॒ना दक्षा॒ वि दु॑हन्ति॒ प्र वा॒णम् ॥९॥
स्वर सहित पद पाठभूय॑सा । व॒स्नम् । अ॒च॒र॒त् । क॒नी॒यः । अवि॑ऽक्रीतः । अ॒का॒नि॒ष॒म् । पुनः॑ । यन् । सः । भूय॑सा । कनी॑यः । न । अ॒रि॒रे॒ची॒त् । दी॒नाः । दक्षाः॑ । वि । दु॒ह॒न्ति॒ । प्र । वा॒णम् ॥
स्वर रहित मन्त्र
भूयसा वस्नमचरत्कनीयोऽविक्रीतो अकानिषं पुनर्यन्। स भूयसा कनीयो नारिरेचीद्दीना दक्षा वि दुहन्ति प्र वाणम् ॥९॥
स्वर रहित पद पाठभूयसा। वस्नम्। अचरत्। कनीयः। अविऽक्रीतः। अकानिषम्। पुनः। यन्। सः। भूयसा। कनीयः। न। अरिरेचीत्। दीनाः। दक्षाः। वि। दुहन्ति। प्र। वाणम् ॥९॥
ऋग्वेद - मण्डल » 4; सूक्त » 24; मन्त्र » 9
अष्टक » 3; अध्याय » 6; वर्ग » 12; मन्त्र » 4
अष्टक » 3; अध्याय » 6; वर्ग » 12; मन्त्र » 4
विषयः - अथ ज्येष्ठकनिष्ठव्यवहारविषयमाह ॥
अन्वयः - योऽविक्रीतो भूयसा कनीयो वस्नमचरत् स पुनर्यन् भूयसा कनीयो नारिरेचीद्ये दीना दक्षा वाणं वि प्र दुहन्ति तानहमकानिषं कामयेयम् ॥९॥
पदार्थः -
(भूयसा) बहुना (वस्नम्) हट्टस्रस्तरम् (अचरत्) (कनीयः) अतिशयेन कनिष्ठम् (अविक्रीतः) न विक्रीतः (अकानिषम्) प्रदीपयेयम् (पुनः) (यन्) गच्छन् (सः) (भूयसा) बहुना (कनीयः) (न) निषेधे (अरिरेचीत्) रिक्तङ्कुर्यात् (दीनाः) क्षीणाः (दक्षाः) चतुराः (वि) (दुहन्ति) पूरिताङ्कुर्वन्ति (प्र) (वाणम्) वाणीम्। वाण इति वाङ्नामसु पठितम्। (निघं०१.११) ॥९॥
भावार्थः - ये मनुष्या विविधव्यापारकारिणो निरभिमानाः प्राज्ञाः सन्तो विद्याशिक्षाभ्यां पूर्णां वाचं कुर्वन्ति ते कनीयसः पालयितुं शक्नुवन्ति ॥९॥
इस भाष्य को एडिट करें