ऋग्वेद - मण्डल 4/ सूक्त 27/ मन्त्र 1
ऋषिः - वामदेवो गौतमः
देवता - इन्द्र:
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
गर्भे॒ नु सन्नन्वे॑षामवेदम॒हं दे॒वानां॒ जनि॑मानि॒ विश्वा॑। श॒तं मा॒ पुर॒ आय॑सीररक्ष॒न्नध॑ श्ये॒नो ज॒वसा॒ निर॑दीयम् ॥१॥
स्वर सहित पद पाठगर्भे॑ । नु । सन् । अनु॑ । ए॒षा॒म् । अ॒वे॒द॒म् । अ॒हम् । दे॒वाना॑म् । जनि॑मानि । विश्वा॑ । श॒तम् । मा॒ । पुरः॑ । आय॑सीः । अ॒र॒क्ष॒न् । अध॑ । श्ये॒नः । ज॒वसा॑ । निः । अ॒दी॒य॒म् ॥
स्वर रहित मन्त्र
गर्भे नु सन्नन्वेषामवेदमहं देवानां जनिमानि विश्वा। शतं मा पुर आयसीररक्षन्नध श्येनो जवसा निरदीयम् ॥१॥
स्वर रहित पद पाठगर्भे। नु। सन्। अनु। एषाम्। अवेदम्। अहम्। देवानाम्। जनिमानि। विश्वा। शतम्। मा। पुरः। आयसीः। अरक्षन्। अध। श्येनः। जवसा। निः। अदीयम् ॥१॥
ऋग्वेद - मण्डल » 4; सूक्त » 27; मन्त्र » 1
अष्टक » 3; अध्याय » 6; वर्ग » 16; मन्त्र » 1
अष्टक » 3; अध्याय » 6; वर्ग » 16; मन्त्र » 1
विषयः - अथ जीवगुणानाह ॥
अन्वयः - हे मनुष्या ! यथाऽहं गर्भे सन्नेषां देवानां विश्वा जनिमान्यन्ववेदं यं मा आयसीः शतं पुरोऽरक्षन्नध सोऽहं श्येन इवाऽस्माच्छरीराज्जवसा नु निरदीयम् ॥१॥
पदार्थः -
(गर्भे) (नु) सद्यः (सन्) (अनु) पश्चात् (एषाम्) (अवेदम्) विजानामि (अहम्) विद्वान् (देवानाम्) दिव्यानां पृथिव्यादीनां पदार्थानां विदुषां वा (जनिमानि) जन्मानि (विश्वा) सर्वाणि (शतम्) (मा) माम् (पुरः) नगर्य्यः (आयसीः) सुवर्णमयीर्लोहमयीर्वा (अरक्षन्) रक्षन्ति (अध) अथ (श्येनः) (जवसा) वेगेन (निः) नितराम् (अदीयम्) निःसरेयम् ॥१॥
भावार्थः - मनुष्यैस्सदा सृष्टिविद्याबोधस्य जन्ममरणयोः शारीरिकी च विद्या विज्ञेया, यतो सदैव निर्भयता वर्त्तेत ॥१॥
इस भाष्य को एडिट करें