ऋग्वेद - मण्डल 4/ सूक्त 32/ मन्त्र 24
ऋषिः - वामदेवो गौतमः
देवता - इन्द्राश्वौ
छन्दः - स्वराडार्चीगायत्री
स्वरः - षड्जः
अरं॑ म उ॒स्रया॒म्णेऽर॒मनु॑स्रयाम्णे। ब॒भ्रू यामे॑ष्व॒स्रिधा॑ ॥२४॥
स्वर सहित पद पाठअर॑म् । मे॒ । उ॒स्रऽया॑म्णे । अर॑म् । अनु॑स्रऽयाम्ने । ब॒भ्रू इति॑ । यामे॑षु । अ॒स्रिधा॑ ॥
स्वर रहित मन्त्र
अरं म उस्रयाम्णेऽरमनुस्रयाम्णे। बभ्रू यामेष्वस्रिधा ॥२४॥
स्वर रहित पद पाठअरम्। मे। उस्रऽयाम्ने। अरम्। अनुस्रऽयाम्ने। बभ्रू इति। यामेषु। अस्रिधा ॥२४॥
ऋग्वेद - मण्डल » 4; सूक्त » 32; मन्त्र » 24
अष्टक » 3; अध्याय » 6; वर्ग » 30; मन्त्र » 8
अष्टक » 3; अध्याय » 6; वर्ग » 30; मन्त्र » 8
विषयः - पुनस्तमेव विषयमाह ॥
अन्वयः - यावस्रिधा बभू्र यामेषूस्रयाम्णे मेऽरमनुस्रयाम्णे मेऽरं भवतस्तौ मया सेवनीयौ ॥२४॥
पदार्थः -
(अरम्) अलम् (मे) मह्यम् (उस्रयाम्णे) उस्रैः किरणैरिव यानेन याति तस्मै (अरम्) अलम् (अनुस्रयाम्णे) योऽनुस्रं शीतं देशं याति तस्मै (बभ्रू) सत्यधारकौ (यामेषु) प्रहरेषु (अस्रिधा) अहिंसकौ ॥२४॥
भावार्थः - यावध्यापकोपदेशकौ शीतोष्णदेशनिवासिनं मामध्यापयितुमुपदेष्टुं च शक्नुतस्तौ सदैव मया सत्कर्त्तव्यौ भवत इति ॥२४॥ अत्रेन्द्रराजप्रजाध्यापकोपदेशकगुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥२४॥ इत्यृक्संहितायां तृतीयाष्टके षष्ठोऽध्यायस्त्रिंशो वर्गश्चतुर्थमण्डले द्वात्रिंशत्तमं सूक्तं तृतीयोऽनुवाकश्च समाप्तः ॥
इस भाष्य को एडिट करें