ऋग्वेद - मण्डल 4/ सूक्त 37/ मन्त्र 1
उप॑ नो वाजा अध्व॒रमृ॑भुक्षा॒ देवा॑ या॒त प॒थिभि॑र्देव॒यानैः॑। यथा॑ य॒ज्ञं मनु॑षो वि॒क्ष्वा॒३॒॑सु द॑धि॒ध्वे र॑ण्वाः सु॒दिने॒ष्वह्ना॑म् ॥१॥
स्वर सहित पद पाठउप॑ । नः॒ । वा॒जाः॒ । अ॒ध्व॒रम् । ऋ॒भु॒क्षाः॒ । देवाः॑ । या॒त । प॒थिऽभिः॑ । दे॒व॒ऽयानैः॑ । यथा॑ । य॒ज्ञम् । मनु॑षः । वि॒क्षु । आ॒सु । द॒धि॒ध्वे । र॒ण्वाः॒ । सु॒ऽदिने॑षु । अह्ना॑म् ॥
स्वर रहित मन्त्र
उप नो वाजा अध्वरमृभुक्षा देवा यात पथिभिर्देवयानैः। यथा यज्ञं मनुषो विक्ष्वा३सु दधिध्वे रण्वाः सुदिनेष्वह्नाम् ॥१॥
स्वर रहित पद पाठउप। नः। वाजाः। अध्वरम्। ऋभुक्षाः। देवाः। यात। पथिऽभिः। देवऽयानैः। यथा। यज्ञम्। मनुषः। विक्षु। आसु। दधिध्वे। रण्वाः। सुऽदिनेषु। अह्नाम् ॥१॥
ऋग्वेद - मण्डल » 4; सूक्त » 37; मन्त्र » 1
अष्टक » 3; अध्याय » 7; वर्ग » 9; मन्त्र » 1
अष्टक » 3; अध्याय » 7; वर्ग » 9; मन्त्र » 1
विषयः - अथाप्तविषयमाह ॥
अन्वयः - हे ऋभुक्षा वाजा देवा ! भवन्तो यथा रण्वा मनुषोऽह्नां सुदिनेष्वासु विक्षु यज्ञं दधति तथैव यूयमेतं दधिध्वे तथा पथिभिर्देवयानैर्नोऽध्वरमुपयात ॥१॥
पदार्थः -
(उप) (नः) अस्माकम् (वाजाः) विज्ञानवन्तः (अध्वरम्) अहिंसामयं यज्ञम् (ऋभुक्षाः) महान्तः (देवाः) (यात) प्राप्नुत (पथिभिः) मार्गैः (देवयानैः) देवा विद्वांसो यान्ति येषु तैः (यथा) (यज्ञम्) वैरादिदोषरहितं व्यवहारम् (मनुषः) मननशीलाः (विक्षु) प्रजासु (आसु) प्रत्यक्षवर्त्तमानासु (दधिध्वे) धरध्वम् (रण्वाः) रमणीयाः (सुदिनेषु) सुखेन वर्त्तमानेष्वहःसु (अह्नाम्) दिनानां मध्ये ॥१॥
भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। ये धार्मिकाणां विदुषां मार्गेण गच्छन्ति ते प्रजाहितकरणे समर्था जायन्ते ॥१॥
इस भाष्य को एडिट करें