Loading...
ऋग्वेद मण्डल - 4 के सूक्त 51 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 4/ सूक्त 51/ मन्त्र 1
    ऋषिः - वामदेवो गौतमः देवता - उषाः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    इ॒दमु॒ त्यत्पु॑रु॒तमं॑ पु॒रस्ता॒ज्ज्योति॒स्तम॑सो व॒युना॑वदस्थात्। नू॒नं दि॒वो दु॑हि॒तरो॑ विभा॒तीर्गा॒तुं कृ॑णवन्नु॒षसो॒ जना॑य ॥१॥

    स्वर सहित पद पाठ

    इ॒दम् । ऊँ॒ इति॑ । त्यत् । पु॒रु॒ऽतम॑म् । पु॒रस्ता॑त् । ज्योतिः॑ । तम॑सः । व॒युन॑ऽवत् । अ॒स्था॒त् । नू॒नम् । दि॒वः । दु॒हि॒तरः॑ । वि॒ऽभा॒तीः । गा॒तुम् । कृ॒ण॒व॒न् । उ॒षसः॑ । जना॑य ॥


    स्वर रहित मन्त्र

    इदमु त्यत्पुरुतमं पुरस्ताज्ज्योतिस्तमसो वयुनावदस्थात्। नूनं दिवो दुहितरो विभातीर्गातुं कृणवन्नुषसो जनाय ॥१॥

    स्वर रहित पद पाठ

    इदम्। ऊम् इति। त्यत्। पुरुऽतमम्। पुरस्तात्। ज्योतिः। तमसः। वयुनऽवत्। अस्थात्। नूनम्। दिवः। दुहितरः। विऽभातीः। गातुम्। कृणवन्। उषसः। जनाय ॥१॥

    ऋग्वेद - मण्डल » 4; सूक्त » 51; मन्त्र » 1
    अष्टक » 3; अध्याय » 8; वर्ग » 1; मन्त्र » 1

    अन्वयः - हे मनुष्यास्त्यदिदं पुरुतमं ज्योतिर्वयुनावत्तमसः पुरस्तादस्थात्तस्य दिवो विभातीर्दुहितर उषसो जनाय गातुमु नूनं प्रकाशितां कृणवन्निति विजानीत ॥१॥

    पदार्थः -
    (इदम्) (उ) (त्यत्) तत् (पुरुतमम्) अतिशयेन बहुप्रकारम् (पुरस्तात्) पूर्वम् (ज्योतिः) तेजः (तमसः) रात्रेः (वयुनावत्) प्रज्ञानवत् (अस्थात्) वर्त्तते (नूनम्) (दिवः) प्रकाशस्य (दुहितरः) कन्या इव वर्त्तमानाः (विभातीः) प्रकाशयन्तः (गातुम्) पृथिवीम् (कृणवन्) कुर्वन्ति (उषसः) प्रभाताः (जनाय) मनुष्याद्याय ॥१॥

    भावार्थः - हे मनुष्या ! भवन्तः पुरुषार्थेन सूर्य्यप्रकाशवद्विज्ञानं प्राप्य तमोनिवृत्तिवदविद्यां निवार्य्याऽऽनन्दिता भवन्तु ॥१॥

    इस भाष्य को एडिट करें
    Top