ऋग्वेद - मण्डल 4/ सूक्त 56/ मन्त्र 1
ऋषिः - वामदेवो गौतमः
देवता - द्यावापृथिव्यौ
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
म॒ही द्यावा॑पृथि॒वी इ॒ह ज्येष्ठे॑ रु॒चा भ॑वतां शु॒चय॑द्भिर॒र्कैः। वत्सीं॒ वरि॑ष्ठे बृह॒ती वि॑मि॒न्वन्रु॒वद्धो॒क्षा प॑प्रथा॒नेभि॒रेवैः॑ ॥१॥
स्वर सहित पद पाठम॒ही । द्यावा॑पृथि॒वी इति॑ । इ॒ह । ज्येष्ठे॒ इति॑ । रु॒चा । भ॒व॒ता॒म् । शु॒चय॑त्ऽभिः । अ॒र्कैः । यत् । सी॒म् । वरि॑ष्ठे॒ इति॑ । बृ॒ह॒ती इति॑ । वि॒ऽमि॒न्वन् । रु॒वत् । ह॒ । उ॒क्षा । प॒प्र॒था॒नेभिः॑ । एवैः॑ ॥
स्वर रहित मन्त्र
मही द्यावापृथिवी इह ज्येष्ठे रुचा भवतां शुचयद्भिरर्कैः। वत्सीं वरिष्ठे बृहती विमिन्वन्रुवद्धोक्षा पप्रथानेभिरेवैः ॥१॥
स्वर रहित पद पाठमही इति। द्यावापृथिवी इति। इह। ज्येष्ठे इति। रुचा। भवताम्। शुचयत्ऽभिः। अर्कैः। यत्। सीम्। वरिष्ठे इति। बृहती इति। विऽमिन्वन्। रुवत्। ह। उक्षा। पप्रथानेभिः। एवैः ॥१॥
ऋग्वेद - मण्डल » 4; सूक्त » 56; मन्त्र » 1
अष्टक » 3; अध्याय » 8; वर्ग » 8; मन्त्र » 1
अष्टक » 3; अध्याय » 8; वर्ग » 8; मन्त्र » 1
विषयः - अथ द्यावापृथिव्योर्गुणानाह ॥
अन्वयः - हे मनुष्या ! यद्यो विमिन्वन् रुवद्धोक्षेव विद्वानिह सीं शुचयद्भिरर्कैः पप्रथानेभिरेवैर्गुणैस्सह वर्त्तमाने वरिष्ठे बृहती मही ज्येष्ठे रुचा द्यावापृथिवी भवतां ते [=तान्] यथावद्विजानाति स एव सर्वेषां कल्याणकरो भवति ॥१॥
पदार्थः -
(मही) महत्यौ (द्यावापृथिवी) सूर्यभूमी (इह) (ज्येष्ठे) अतिशयेन प्रशस्ये (रुचा) रुचिकर्यौ (भवताम्) (शुचयद्भिः) पवित्रयद्भिः (अर्कैः) अर्चनीयैः (यत्) यः (सीम्) सर्वतः (वरिष्ठे) अतिशयेन वरे (बृहती) बृहन्त्यौ (विमिन्वन्) विशेषेण प्रक्षिपन् (रुवत्) प्रशस्तशब्दवत् (ह) किल (उक्षा) सूर्यः (पप्रथानेभिः) भृशं विस्तृतैः (एवैः) सुखप्रापकैः ॥१॥
भावार्थः - ये मनुष्याः पृथिवीमारभ्य सूर्य्यपर्य्यन्तान् पदार्थाञ्च जानन्ति त ऐश्वर्य्यवन्तो भूत्वा सर्वान् सुखयन्तु ॥१॥
इस भाष्य को एडिट करें