ऋग्वेद - मण्डल 4/ सूक्त 9/ मन्त्र 7
अ॒स्माकं॑ जोष्यध्व॒रम॒स्माकं॑ य॒ज्ञम॑ङ्गिरः। अ॒स्माकं॑ शृणुधी॒ हव॑म् ॥७॥
स्वर सहित पद पाठअ॒स्माक॑म् । जो॒षि॒ । अ॒ध्व॒रम् । अ॒स्माक॑म् । य॒ज्ञम् । अ॒ङ्गि॒रः॒ । अ॒स्माक॑म् । शृ॒णु॒धि॒ । हव॑म् ॥
स्वर रहित मन्त्र
अस्माकं जोष्यध्वरमस्माकं यज्ञमङ्गिरः। अस्माकं शृणुधी हवम् ॥७॥
स्वर रहित पद पाठअस्माकम्। जोषि। अध्वरम्। अस्माकम्। यज्ञम्। अङ्गिरः। अस्माकम्। शृणुधि। हवम्॥७॥
ऋग्वेद - मण्डल » 4; सूक्त » 9; मन्त्र » 7
अष्टक » 3; अध्याय » 5; वर्ग » 9; मन्त्र » 7
अष्टक » 3; अध्याय » 5; वर्ग » 9; मन्त्र » 7
विषयः - पुनस्तमेव विषयमाह ॥
अन्वयः - हे अङ्गिरो राजन् ! यतस्त्वमस्माकमध्वरमस्माकं यज्ञं जोषि तस्मादस्माकं हवं शृणुधि ॥७॥
पदार्थः -
(अस्माकम्) (जोषि) सेवसे (अध्वरम्) न्यायव्यवहारम् (अस्माकम्) (यज्ञम्) विद्वत्सत्कारादिक्रियामयम् (अङ्गिरः) प्राण इव प्रिय (अस्माकम्) (शृणुधि) अत्र संहितायामिति दीर्घः। (हवम्) शब्दार्थसम्बन्धविषयम् ॥७॥
भावार्थः - हे राजन् ! यतो भवानस्माकं रक्षकः प्रियोऽसि तस्मादर्थिप्रत्यर्थिनां वचांसि श्रुत्वा सततं न्यायं विधेहि ॥७॥
इस भाष्य को एडिट करें