ऋग्वेद - मण्डल 5/ सूक्त 13/ मन्त्र 6
अग्ने॑ ने॒मिर॒राँ इ॑व दे॒वाँस्त्वं प॑रि॒भूर॑सि। आ राध॑श्चि॒त्रमृ॑ञ्जसे ॥६॥
स्वर सहित पद पाठअग्ने॑ । ने॒मिः । अ॒रान्ऽइ॑व । दे॒वान् । त्वम् । प॒रि॒ऽभूः । अ॒सि॒ । आ । राधः॑ । चि॒त्रम् । ऋ॒ञ्ज॒से॒ ॥
स्वर रहित मन्त्र
अग्ने नेमिरराँ इव देवाँस्त्वं परिभूरसि। आ राधश्चित्रमृञ्जसे ॥६॥
स्वर रहित पद पाठअग्ने। नेमिः। अरान्ऽइव। देवान्। त्वम्। परिऽभूः। असि। आ। राधः। चित्रम्। ऋञ्जसे ॥६॥
ऋग्वेद - मण्डल » 5; सूक्त » 13; मन्त्र » 6
अष्टक » 4; अध्याय » 1; वर्ग » 5; मन्त्र » 6
अष्टक » 4; अध्याय » 1; वर्ग » 5; मन्त्र » 6
विषयः - पुनस्तमेव विषयमाह ॥
अन्वयः - हे अग्ने ! त्वं नेमिररानिव देवान् परिभूरसि चित्रं राध आ ऋञ्जसे तस्मात् सत्कर्त्तव्योऽसि ॥६॥
पदार्थः -
(अग्ने) विद्वान् (नेमिः) रथाङ्गम् (अरानिव) चक्राङ्गानीव (देवान्) दिव्यान् गुणान् विदुषो वा (त्वम्) (परिभूः) सर्वतो भावयिता (असि) (आ) (राधः) धनम् (चित्रम्) (ऋञ्जसे) प्रसाध्नोसि ॥६॥
भावार्थः - अत्रोपमालङ्कारः । यथाऽरादिभिश्चक्रं सुशोभते तथैव विद्वद्भिः शुभैर्गुणैश्च मनुष्याः शोभन्त इति ॥६॥ अत्राग्निविद्वद्गुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इति त्रयोदशं सूक्तं पञ्चमो वर्गश्च समाप्तः ॥
इस भाष्य को एडिट करें