साइडबार
ऋग्वेद - मण्डल 5/ सूक्त 21/ मन्त्र 3
त्वां विश्वे॑ स॒जोष॑सो दे॒वासो॑ दू॒तम॑क्रत। स॒प॒र्यन्त॑स्त्वा कवे य॒ज्ञेषु॑ दे॒वमी॑ळते ॥३॥
स्वर सहित पद पाठत्वाम् । विश्वे॑ । स॒जोष॑सः । दे॒वासः॑ । दू॒तम् । अ॒क्र॒त॒ । स॒प॒र्यन्तः॑ । त्वा॒ । क॒वे॒ । य॒ज्ञेषु॑ । दे॒वम् । ई॒ळ॒ते॒ ॥
स्वर रहित मन्त्र
त्वां विश्वे सजोषसो देवासो दूतमक्रत। सपर्यन्तस्त्वा कवे यज्ञेषु देवमीळते ॥३॥
स्वर रहित पद पाठत्वाम्। विश्वे। सऽजोषसः। देवासः। दूतम्। अक्रत। सपर्यन्तः। त्वा। कवे। यज्ञेषु। देवम्। ईळते ॥३॥
ऋग्वेद - मण्डल » 5; सूक्त » 21; मन्त्र » 3
अष्टक » 4; अध्याय » 1; वर्ग » 13; मन्त्र » 3
अष्टक » 4; अध्याय » 1; वर्ग » 13; मन्त्र » 3
विषयः - अथ शिल्पविद्याविद्विषयमाह ॥
अन्वयः - हे कवे ! यथा विश्वे सजोषसो देवासो देवं दूतमक्रत सपर्यन्तो यज्ञेषु देवमीळते तथा त्वां वयं सेवेमहि त्वा सत्कुर्य्याम ॥३॥
पदार्थः -
(त्वाम्) (विश्वे) सर्वे (सजोषसः) समानप्रीतिसेविनः (देवासः) विद्वांसः (दूतम्) दूतवद्वर्त्तमानवह्निम् (अक्रत) कुर्वते (सपर्यन्तः) परिचरन्तः (त्वा) त्वाम् (कवे) विपश्चित् (यज्ञेषु) सत्सङ्गेषु (देवम्) दिव्यगुणम् (ईळते) स्तुवन्ति ॥३॥
भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः । येऽग्निं दूतकर्म कारयन्ति ते सर्वत्र प्रशंसितैश्वर्य्या जायन्ते ॥३॥
इस भाष्य को एडिट करें