Loading...
ऋग्वेद मण्डल - 5 के सूक्त 3 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 3/ मन्त्र 1
    ऋषिः - वसुश्रुत आत्रेयः देवता - अग्निः छन्दः - निचृत्पङ्क्ति स्वरः - पञ्चमः

    त्वम॑ग्ने॒ वरु॑णो॒ जाय॑से॒ यत्त्वं मि॒त्रो भ॑वसि॒ यत्समि॑द्धः। त्वे विश्वे॑ सहसस्पुत्र दे॒वास्त्वमिन्द्रो॑ दा॒शुषे॒ मर्त्या॑य ॥१॥

    स्वर सहित पद पाठ

    त्वम् । अ॒ग्ने॒ । वरु॑णः । जाय॑से । यत् । त्वम् । मि॒त्रः । भ॒व॒सि॒ । यत् । सम्ऽइ॑द्धः । त्वे । विश्वे॑ । स॒ह॒सः॒ । पु॒त्र॒ । दे॒वाः । त्वम् । इन्द्रः॑ । दा॒शुषे॑ । मर्त्या॑य ॥


    स्वर रहित मन्त्र

    त्वमग्ने वरुणो जायसे यत्त्वं मित्रो भवसि यत्समिद्धः। त्वे विश्वे सहसस्पुत्र देवास्त्वमिन्द्रो दाशुषे मर्त्याय ॥१॥

    स्वर रहित पद पाठ

    त्वम्। अग्ने। वरुणः। जायसे। यत्। त्वम्। मित्रः। भवसि। यत्। सम्ऽइद्धः। त्वे इति। विश्वे। सहसः। पुत्र। देवाः। त्वम्। इन्द्रः। दाशुषे। मर्त्याय ॥१॥

    ऋग्वेद - मण्डल » 5; सूक्त » 3; मन्त्र » 1
    अष्टक » 3; अध्याय » 8; वर्ग » 16; मन्त्र » 1

    अन्वयः - हे सहसस्पुत्राग्ने ! यत्त्वं मित्रो यत्समिद्धो भवसि यस्त्वं वरुणो जायसे यस्त्वमिन्द्रो दाशुषे मर्त्याय धनं ददासि तस्मिँस्त्वे विश्वे देवाः प्रसन्ना जायन्ते ॥१॥

    पदार्थः -
    (त्वम्) (अग्ने) कृतविद्याभ्यास (वरुणः) दुष्टानां बन्धकृच्छ्रेष्ठः (जायसे) (यत्) यस्य (त्वम्) (मित्रः) सखा (भवसि) (यत्) येन (समिद्धः) प्रदीप्तः (त्वे) त्वयि (विश्वे) सर्वे (सहसः) (पुत्रः) बलस्य पालक (देवाः) विद्वांसः (त्वम्) (इन्द्रः) ऐश्वर्यदाता (दाशुषे) दातुं योग्याय (मर्त्याय) ॥१॥

    भावार्थः - हे राजन् ! यस्य त्वं सखा यस्माद्विरुद्ध उदासीनो वा भवसि स त्वया सह सदैव मित्रतां रक्षेत् त्वमपि ॥१॥

    इस भाष्य को एडिट करें
    Top