Loading...
ऋग्वेद मण्डल - 5 के सूक्त 30 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 30/ मन्त्र 14
    ऋषिः - बभ्रु रात्रेयः देवता - इन्द्र ऋणञ्चयश्च छन्दः - त्रिष्टुप् स्वरः - धैवतः

    औच्छ॒त्सा रात्री॒ परि॑तक्म्या॒ याँ ऋ॑णंच॒ये राज॑नि रु॒शमा॑नाम्। अत्यो॒ न वा॒जी र॒घुर॒ज्यमा॑नो ब॒भ्रुश्च॒त्वार्य॑सनत्स॒हस्रा॑ ॥१४॥

    स्वर सहित पद पाठ

    औच्छ॑त् । सा । रात्री॑ । परि॑ऽतक्म्या । या । ऋ॒ण॒म्ऽच॒ये । राज॑नि । रु॒शमा॑नाम् । अत्यः॑ । न । वा॒जी । र॒घुः । अ॒ज्यमा॑नः । ब॒भ्रुः । च॒त्वारि॑ । अ॒स॒न॒त् । स॒हस्रा॑ ॥


    स्वर रहित मन्त्र

    औच्छत्सा रात्री परितक्म्या याँ ऋणंचये राजनि रुशमानाम्। अत्यो न वाजी रघुरज्यमानो बभ्रुश्चत्वार्यसनत्सहस्रा ॥१४॥

    स्वर रहित पद पाठ

    औच्छत्। साः। रात्री। परिऽतक्म्या। या। ऋणम्ऽचये। राजनि। रुशमानाम्। अत्यः। न। वाजी। रघुः। अज्यमानाः। बभ्रुः। चत्वारि। असनत्। सहस्रा ॥१४॥

    ऋग्वेद - मण्डल » 5; सूक्त » 30; मन्त्र » 14
    अष्टक » 4; अध्याय » 1; वर्ग » 28; मन्त्र » 4

    अन्वयः - हे मनुष्या ! या रुशमानामृणञ्चये राजनि रघुरज्यमानो बभ्रुरत्यो वाजी न चत्वारि सहस्रासनत् सा परितक्म्या रात्री सर्वानौच्छदिति विजानन्तु ॥१४॥

    पदार्थः -
    (औच्छत्) निवासयति (सा) (रात्री) (परितक्म्या) आनन्दप्रदा (या) (ऋणञ्चये) ऋणं चिनोति यस्मात्तस्मिन् (राजनि) (रुशमानाम्) हिंसकमन्त्रीणाम् (अत्यः) अतति मार्गं व्याप्नोति सः (न) इव (वाजी) वेगवान् (रघुः) लघुः (अज्यमानः) चाल्यमानः (बभ्रुः) धारकः पोषको वा (चत्वारि) (असनत्) विभजति (सहस्रा) सहस्राणि ॥१४॥

    भावार्थः - अत्रोपमालङ्कारः। हे विद्वांसो ! यूयं रात्रिदिनकृत्यानि विज्ञाय स्वयमनुष्ठाय सुपरीक्ष्य राजादिभ्यः उपदिशत यत एते सर्वे सुखिनः स्युर्यथा सद्योगाम्यश्वो धावति तथैवाऽहर्निशं धावतीति विज्ञेयम् ॥१४॥

    इस भाष्य को एडिट करें
    Top