Loading...
ऋग्वेद मण्डल - 5 के सूक्त 41 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 41/ मन्त्र 20
    ऋषिः - अत्रिः देवता - विश्वेदेवा: छन्दः - त्रिष्टुप् स्वरः - धैवतः

    सिष॑क्तु न ऊर्ज॒व्य॑स्य पु॒ष्टेः ॥२०॥

    स्वर सहित पद पाठ

    सिस॑क्तु । नः॒ । ऊ॒र्ज॒व्य॑स्य । पु॒ष्टेः ॥


    स्वर रहित मन्त्र

    सिषक्तु न ऊर्जव्यस्य पुष्टेः ॥२०॥

    स्वर रहित पद पाठ

    सिषक्तु। नः। ऊर्जव्यस्य। पुष्टेः ॥२०॥

    ऋग्वेद - मण्डल » 5; सूक्त » 41; मन्त्र » 20
    अष्टक » 4; अध्याय » 2; वर्ग » 16; मन्त्र » 5

    अन्वयः - यो विद्वान् भवेत् स न ऊर्जव्यस्य पुष्टेर्योगं सिषक्तु ॥२०॥

    पदार्थः -
    (सिषक्तु) परिचरतु (नः) अस्मान् (ऊर्जव्यस्य) बहुबलप्राप्तस्य (पुष्टेः) ॥२०॥

    भावार्थः - यो जगदुपकारी भवति स एव सर्वविद्यासम्बन्धं कर्त्तुमर्हति ॥२०॥ अत्र विश्वेषां देवानां गुणवर्णन कृतमतोऽस्य सूक्तस्यार्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इत्येकचत्वारिंशत्तमं सूक्तं षोडशो वर्गश्च समाप्तः ॥

    इस भाष्य को एडिट करें
    Top