ऋग्वेद - मण्डल 5/ सूक्त 45/ मन्त्र 1
ऋषिः - अवत्सारः काश्यप अन्ये च दृष्टलिङ्गाः
देवता - विश्वेदेवा:
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
वि॒दा दि॒वो वि॒ष्यन्नद्रि॑मु॒क्थैरा॑य॒त्या उ॒षसो॑ अ॒र्चिनो॑ गुः। अपा॑वृत व्र॒जिनी॒रुत्स्व॑र्गा॒द्वि दुरो॒ मानु॑षीर्दे॒व आ॑वः ॥१॥
स्वर सहित पद पाठवि॒दाः । दि॒वः । वि॒ऽस्यन् । अद्रि॑म् । उ॒क्थैः । आ॒ऽय॒त्याः । उ॒षसः॑ । अ॒र्चिनः॑ । गुः॒ । अप॑ । अ॒वृ॒त॒ । व्र॒जिनीः॑ । उत् । स्वः॑ । गा॒त् । वि । दुरः॑ । मानु॑षीः । दे॒वः । आ॒व॒रित्या॑वः ॥
स्वर रहित मन्त्र
विदा दिवो विष्यन्नद्रिमुक्थैरायत्या उषसो अर्चिनो गुः। अपावृत व्रजिनीरुत्स्वर्गाद्वि दुरो मानुषीर्देव आवः ॥१॥
स्वर रहित पद पाठविदाः। दिवः। विऽस्यन्। अद्रिम्। उक्थैः। आऽयत्याः। उषसः। अर्चिनः। गुः। अप। अवृत। व्रजिनीः। उत्। स्वः। गात्। वि। दुरः। मानुषीः। देवः। आवरित्यावः ॥१॥
ऋग्वेद - मण्डल » 5; सूक्त » 45; मन्त्र » 1
अष्टक » 4; अध्याय » 2; वर्ग » 26; मन्त्र » 1
अष्टक » 4; अध्याय » 2; वर्ग » 26; मन्त्र » 1
विषयः - अथ सूर्य्यविषयमाह ॥
अन्वयः - हे मनुष्या ! यथा स्वरादित्यो देवो मेघो वा मानुषीर्दुरो वि गादावोऽद्रिं व्रजिनीश्च उदपावृत तथैव दिवो विदा अर्चिन उक्थैरायत्या उषस इव विष्यन् गुस्तान् सततं सेवध्वम् ॥१॥
पदार्थः -
(विदाः) विद्वांसः (दिवः) कामयमानाः (विष्यन्) व्याप्नुवन्ति (अद्रिम्) मेघम् (उक्थैः) वेदविद्याजन्यैरुपदेशैः (आयत्याः) पश्चाद्भवाः (उषसः) प्रभाताः (अर्चिनः) सत्कर्त्तारः (गुः) गच्छन्ति (अप) (अवृत) दूरीकुर्वन्ति (व्रजिनीः) वर्जनक्रियाः (उत्) (स्वः) आदित्यः (गात्) प्राप्नोति (वि) (दुरः) द्वाराणि (मानुषीः) मनुष्याणामिमाः (देवः) दिव्यगुणः (आवः) आवृणोति ॥१॥
भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः । य उषसादित्यवन्मनुष्यप्रजासु विद्याधर्मप्रकाशकाः स्युस्त एवाऽध्यापकोपदेशका भवन्तु ॥१॥
इस भाष्य को एडिट करें