ऋग्वेद - मण्डल 5/ सूक्त 53/ मन्त्र 1
को वे॑द॒ जान॑मेषां॒ को वा॑ पु॒रा सु॒म्नेष्वा॑स म॒रुता॑म्। यद्यु॑यु॒ज्रे कि॑ला॒स्यः॑ ॥१॥
स्वर सहित पद पाठकः । वे॒द॒ । जान॑म् । ए॒षा॒म् । कः । वा॒ । पु॒रा । सु॒म्नेषु॑ । आ॒स॒ । म॒रुता॑म् । यत् । यु॒यु॒ज्रे । कि॒ला॒स्यः॑ ॥
स्वर रहित मन्त्र
को वेद जानमेषां को वा पुरा सुम्नेष्वास मरुताम्। यद्युयुज्रे किलास्यः ॥१॥
स्वर रहित पद पाठकः। वेद। जानम्। एषाम्। कः। वा। पुरा। सुम्नेषु। आस। मरुताम्। यत्। युयुज्रे। किलास्यः ॥१॥
ऋग्वेद - मण्डल » 5; सूक्त » 53; मन्त्र » 1
अष्टक » 4; अध्याय » 3; वर्ग » 11; मन्त्र » 1
अष्टक » 4; अध्याय » 3; वर्ग » 11; मन्त्र » 1
विषयः - अथ मनुष्याः किं जानीयुरित्याह ॥
अन्वयः - हे मनुष्या विद्वांसो वा ! यद्युयुज्रे तदेषां मरुतां जानं किलास्यः को वेद को वा सुम्नेषु पुरास ॥१॥
पदार्थः -
(कः) (वेद) जानाति (जानम्) प्रादुर्भावम् (एषाम्) मनुष्याणां वायूनां वा (कः) (वा) (पुरा) पुरस्तात् (सुम्नेषु) (आस) आस्ते (मरुताम्) मनुष्याणां वायूनां वा (यत्) (युयुज्रे) युञ्जते (किलास्यः) निश्चितमास्यं यस्य सः ॥१॥
भावार्थः - मनुष्यवाय्वादिपदार्थलक्षणलक्ष्याणि विद्वांस एव ज्ञातुं शक्नुवन्ति नेतरे ॥१॥
इस भाष्य को एडिट करें