Loading...
ऋग्वेद मण्डल - 5 के सूक्त 55 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 55/ मन्त्र 10
    ऋषिः - श्यावाश्व आत्रेयः देवता - मरुतः छन्दः - निचृज्जगती स्वरः - निषादः

    यू॒यम॒स्मान्न॑यत॒ वस्यो॒ अच्छा॒ निरं॑ह॒तिभ्यो॑ मरुतो गृणा॒नाः। जु॒षध्वं॑ नो ह॒व्यदा॑तिं यजत्रा व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥१०॥

    स्वर सहित पद पाठ

    यू॒यम् । अ॒स्मान् । न॒य॒त॒ । वस्यः॑ । अच्छ॑ । निः । अं॒ह॒तिऽभ्यः॑ । म॒रु॒तः॒ । गृ॒णा॒नाः । जु॒षध्व॑म् । नः॒ । ह॒व्यऽदा॑तिम् । य॒ज॒त्राः॒ । व॒यम् । स्या॒म॒ । पत॑यः । र॒यी॒णाम् ॥


    स्वर रहित मन्त्र

    यूयमस्मान्नयत वस्यो अच्छा निरंहतिभ्यो मरुतो गृणानाः। जुषध्वं नो हव्यदातिं यजत्रा वयं स्याम पतयो रयीणाम् ॥१०॥

    स्वर रहित पद पाठ

    यूयम्। अस्मान्। नयत। वस्यः। अच्छ। निः। अंहतिऽभ्यः। मरुतः। गृणानाः। जुषध्वम्। नः। हव्यऽदातिम्। यजत्राः। वयम्। स्याम। पतयः। रयीणाम् ॥१०॥

    ऋग्वेद - मण्डल » 5; सूक्त » 55; मन्त्र » 10
    अष्टक » 4; अध्याय » 3; वर्ग » 18; मन्त्र » 5

    अन्वयः - हे गृणाना मरुतो ! यूयं वस्योऽस्मान् रक्षतांहतिभ्यः पृथगच्छा निर्नयत नोऽस्मान् जुषध्वम्। हे यजत्रा ! नो हव्यदातिं नयत यतो वयं रयीणां पतयः स्याम ॥१०॥

    पदार्थः -
    (यूयम्) (अस्मान्) (नयत) (वस्यः) वसीयसोऽतिधनाढ्यान् (अच्छा) अत्र संहितायामिति दीर्घः। (निः) नितराम् (अंहतिभ्यः) (मरुतः) विद्वांसो मनुष्याः (गृणानाः) स्तुवन्तः (जुषध्वम्) सेवध्वम् (नः) अस्मान् (हव्यदातिम्) दातव्यदानम् (यजत्राः) सङ्गन्तारः (वयम्) (स्याम) भवेम (पतयः) पालकाः (रयीणाम्) धनानाम् ॥१०॥

    भावार्थः - जिज्ञासवो विदुषां प्रार्थनामेवं कुर्युर्भवन्तोऽस्मान् दुष्टाचारात् पृथक्कृत्य धर्म्यं पन्थानं प्रापयन्तु ॥१०॥ अत्र मरुद्विद्वदादिगुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इति पञ्चपञ्चाशत्तमं सूक्तमष्टादशो वर्गश्च समाप्तः ॥

    इस भाष्य को एडिट करें
    Top