Loading...
ऋग्वेद मण्डल - 5 के सूक्त 6 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 6/ मन्त्र 10
    ऋषिः - वसुश्रुत आत्रेयः देवता - अग्निः छन्दः - भुरिग्बृहती स्वरः - मध्यमः

    ए॒वाँ अ॒ग्निम॑जुर्यमुर्गी॒र्भिर्य॒ज्ञेभि॑रानु॒षक्। दध॑द॒स्मे सु॒वीर्य॑मु॒त त्यदा॒श्वश्व्य॒मिषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥१०॥

    स्वर सहित पद पाठ

    ए॒व । अ॒ग्निम् । अ॒जु॒र्य॒मुः॒ । गीः॒ऽभिः । य॒ज्ञेभिः॑ । आ॒नु॒षक् । दध॑त् । अ॒स्मे इति॑ । सु॒ऽवीर्य॑म् । उ॒त । त्यत् । आ॒शु॒ऽअश्व्य॑म् । इष॑म् । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥


    स्वर रहित मन्त्र

    एवाँ अग्निमजुर्यमुर्गीर्भिर्यज्ञेभिरानुषक्। दधदस्मे सुवीर्यमुत त्यदाश्वश्व्यमिषं स्तोतृभ्य आ भर ॥१०॥

    स्वर रहित पद पाठ

    एव। अग्निम्। अजुर्यमुः। गीःऽभिः। यज्ञेभिः। आनुषक्। दधत्। अस्मे इति। सुऽवीर्यम्। उत। त्यत्। आशुऽअश्व्यम्। इषम्। स्तोतृऽभ्यः। आ। भर ॥१०॥

    ऋग्वेद - मण्डल » 5; सूक्त » 6; मन्त्र » 10
    अष्टक » 3; अध्याय » 8; वर्ग » 23; मन्त्र » 5

    अन्वयः - हे शवसस्पते ! ये गीर्भिर्यज्ञेभिराश्वश्व्यं सुवीर्यमग्निमानुषगजुर्यमुस्तेष्वेवाऽस्मे भवान् सुवीर्यं दधदुतापि त्यदिषं स्तोतृभ्य आ भर ॥१०॥

    पदार्थः -
    (एव) (अग्निम्) पावकम् (अजुर्यमुः) प्रक्षिपेयुर्नियच्छेयुश्च (गीर्भिः) वाग्भिः (यज्ञेभिः) सङ्गतैः कर्मभिः (आनुषक्) आनुकूल्येन (दधत्) दधाति (अस्मे) अस्मासु (सुवीर्यम्) सुष्ठुपराक्रमम् (उत) (त्यत्) ताम् (आश्वश्व्यम्) आशवो वेगादयो गुणा अश्वा इव यस्मिँस्तम् (इषम्) (स्तोतृभ्यः) (आ) (भर) ॥१०॥

    भावार्थः - हे राजन् ! य अग्न्यादिविद्यां विदित्वाऽनेकानि विमानादीनि यानानि निर्मिमते तेभ्योऽन्नादिकं दत्त्वा सततं सत्कुर्या इति ॥१०॥ अत्राग्निविद्वद्राजगुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इति षष्ठं सूक्तं त्रयोविंशो वर्गश्च समाप्तः ॥

    इस भाष्य को एडिट करें
    Top