ऋग्वेद - मण्डल 5/ सूक्त 62/ मन्त्र 1
ऋषिः - श्यावाश्व आत्रेयः
देवता - रथवीतिर्दाल्भ्यः
छन्दः - गायत्री
स्वरः - षड्जः
ऋ॒तेन॑ ऋ॒तमपि॑हितं ध्रु॒वं वां॒ सूर्य॑स्य॒ यत्र॑ विमु॒चन्त्यश्वा॑न्। दश॑ श॒ता स॒ह त॑स्थु॒स्तदेकं॑ दे॒वानां॒ श्रेष्ठं॒ वपु॑षामपश्यम् ॥१॥
स्वर सहित पद पाठऋ॒तेन॑ । ऋ॒तम् । अपि॑ऽहितम् । ध्रु॒वम् । वा॒म् । सूर्य॑स्य । यत्र॑ । वि॒ऽमु॒चन्ति॑ । अश्वा॑न् । दश॑ । श॒ता । स॒ह । त॒स्थुः॒ । तत् । एक॑म् । दे॒वाना॑म् । श्रेष्ठ॑म् । वपु॑षाम् । अ॒प॒श्य॒म् ॥
स्वर रहित मन्त्र
ऋतेन ऋतमपिहितं ध्रुवं वां सूर्यस्य यत्र विमुचन्त्यश्वान्। दश शता सह तस्थुस्तदेकं देवानां श्रेष्ठं वपुषामपश्यम् ॥१॥
स्वर रहित पद पाठऋतेन। ऋतम्। अपिऽहितम्। ध्रुवम्। वाम्। सूर्यस्य। यत्र। विऽमुचन्ति। अश्वान्। दश। शता। सह। तस्थुः। तत्। एकम्। देवानाम्। श्रेष्ठम्। वपुषाम्। अपश्यम् ॥१॥
ऋग्वेद - मण्डल » 5; सूक्त » 62; मन्त्र » 1
अष्टक » 4; अध्याय » 3; वर्ग » 30; मन्त्र » 1
अष्टक » 4; अध्याय » 3; वर्ग » 30; मन्त्र » 1
विषयः - अथ सूर्य्यगुणानाह ॥
अन्वयः - हे अध्यापकोपदेशकौ ! यत्र विद्वांसः सूर्यस्य दश शताऽश्वान् विमुचन्ति सह तस्थुर्वां युवयोरृतेन ध्रुवमृतमपिहितमस्ति तेदकं देवानां वपुषां च श्रेष्ठमहमपश्यं तदेव यूयमपि पश्यत ॥१॥
पदार्थः -
(ऋतेन) सत्येन कारणेन (ऋतम्) सत्यं स्वरूपम् (अपहितिम्) आच्छादितम् (ध्रुवम्) निश्चलम् (वाम्) युवयोः (सूर्यस्य) सवितुः (यत्र) (विमुचन्ति) त्यजन्ति (अश्वान्) किरणान् (दश) (शता) शतानि (सह) सार्धम् (तस्थुः) तिष्ठन्ति (तत्) (एकम्) अद्वितीयम् (देवानाम्) विदुषाम् (श्रेष्ठम्) (वपुषाम्) रूपवतां शरीराणाम् (अपश्यम्) पश्यामि ॥१॥
भावार्थः - हे मनुष्या ! योऽयं सूर्यलोकः स परमेश्वरेणानेकैस्तत्त्वैर्निर्मितत्वादनेकैर्गुर्णैर्युक्तोऽस्ति तं यथावद्विजानीत ॥१॥
इस भाष्य को एडिट करें