Loading...
ऋग्वेद मण्डल - 5 के सूक्त 66 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 66/ मन्त्र 6
    ऋषिः - रातहव्य आत्रेयः देवता - मित्रावरुणौ छन्दः - स्वराडनुष्टुप् स्वरः - गान्धारः

    आ यद्वा॑मीयचक्षसा॒ मित्र॑ व॒यं च॑ सू॒रयः॑। व्यचि॑ष्ठे बहु॒पाय्ये॒ यते॑महि स्व॒राज्ये॑ ॥६॥

    स्वर सहित पद पाठ

    आ । यत् । वा॒म् । ई॒य॒ऽच॒क्ष॒सा॒ । मित्रा॑ । व॒यम् । च॒ । सू॒रयः॑ । व्यचि॑ष्ठे । ब॒हु॒ऽपाय्ये॑ । यते॑महि । स्व॒ऽराज्ये॑ ॥


    स्वर रहित मन्त्र

    आ यद्वामीयचक्षसा मित्र वयं च सूरयः। व्यचिष्ठे बहुपाय्ये यतेमहि स्वराज्ये ॥६॥

    स्वर रहित पद पाठ

    आ। यत्। वाम्। ईयऽचक्षसा। मित्रा। वयम्। च। सूरयः। व्यचिष्ठे। बहुऽपाय्ये। यतेमहि। स्वऽराज्ये ॥६॥

    ऋग्वेद - मण्डल » 5; सूक्त » 66; मन्त्र » 6
    अष्टक » 4; अध्याय » 4; वर्ग » 4; मन्त्र » 6

    अन्वयः - हे ईयचक्षसा मित्रा ! वां युवयोर्यद् व्यचिष्ठे बहुपाय्ये राज्ये स्वराज्ये च सूरयो वयमा यतेमहि तस्मिन् यतेयाथाम् ॥६॥

    पदार्थः -
    (आ) समन्तात् (यत्) यस्मिन् (वाम्) युवाम् (ईयचक्षसा) ईयं प्राप्तव्यं ज्ञातव्यं वा चक्षो दर्शनं कथनं च ययोस्तौ (मित्रा) सखायौ (वयम्) (च) (सूरयः) विद्वांसः (व्यचिष्ठे) अतिशयेन व्याप्ते (बहुपाय्ये) बहुभी रक्षणीये (यतेमहि) (स्वराज्ये) स्वकीये राष्ट्रे ॥६॥

    भावार्थः - मनुष्यैर्मैत्रीं कृत्वा स्वं परकीयं च राज्यं न्यायेन रक्षित्वा धर्म्मोन्नतिः कार्य्येति ॥६॥

    इस भाष्य को एडिट करें
    Top