Loading...
ऋग्वेद मण्डल - 5 के सूक्त 7 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 7/ मन्त्र 10
    ऋषिः - इष आत्रेयः देवता - अग्निः छन्दः - निचृद्बृहती स्वरः - मध्यमः

    इति॑ चिन्म॒न्युम॒ध्रिज॒स्त्वादा॑त॒मा प॒शुं द॑दे। आद॑ग्ने॒ अपृ॑ण॒तोऽत्रिः॑ सासह्या॒द्दस्यू॑नि॒षः सा॑सह्या॒न्नॄन् ॥१०॥

    स्वर सहित पद पाठ

    इति॑ । चि॒त् । म॒न्युम् । अ॒ध्रिजः॑ । त्वाऽदा॑तम् । आ । प॒शुम् । द॒दे॒ । आत् । अ॒ग्ने॒ । अपृ॑णतः । अत्रिः॑ । स॒स॒ह्या॒त् । दस्यू॑न् । इ॒षः । स॒स॒ह्या॒त् । नॄन् ॥


    स्वर रहित मन्त्र

    इति चिन्मन्युमध्रिजस्त्वादातमा पशुं ददे। आदग्ने अपृणतोऽत्रिः सासह्याद्दस्यूनिषः सासह्यान्नॄन् ॥१०॥

    स्वर रहित पद पाठ

    इति। चित्। मन्युम्। अध्रिजः। त्वाऽदातम्। आ। पशुम्। ददे। आत्। अग्ने। अपृणतः। अत्रिः। ससह्यात्। दस्यून्। इषः। ससह्यात्। नॄन् ॥१०॥

    ऋग्वेद - मण्डल » 5; सूक्त » 7; मन्त्र » 10
    अष्टक » 3; अध्याय » 8; वर्ग » 25; मन्त्र » 5

    अन्वयः - हे अग्नेऽध्रिजो भवान् मन्युं सासह्यादत्रिस्त्वमपृणतो दस्यून् सासह्यादादिषो नॄँश्च सासह्यादिति वर्त्तमानाच्चित्त्वत्त्वादातं पशुमहमा ददे ॥१०॥

    पदार्थः -
    (इति) अनेन प्रकारेण (चित्) अपि (मन्युम्) क्रोधम् (अध्रिजः) अध्रिषु धारकेषु जातः (त्वादातम्) त्वया दातव्यम् (आ) (पशुम्) (ददे) ददामि (आत्) (अग्ने) विद्वन् (अपृणतः) अपालयतः (अत्रिः) सततं पुरुषार्थी (सासह्यात्) भृशं सहेत् (दस्यून्) दुष्टान् साहसिकान् चोरान् (इषः) इच्छाः (सासह्यात्) अत्रोभयत्राभ्यासदीर्घः। (नॄन्) नीतियुक्तान् मनुष्यान् ॥१०॥

    भावार्थः - ये राजानः क्रोधादीन् दुर्व्यसनानि च निवार्य दस्यूञ्जित्वा श्रेष्ठैः कृतमपमानं सहेरँस्तेऽखण्डितराज्या भवन्तीति ॥१०॥ अत्र मित्रत्वविद्वद्राजाग्निगुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इति सप्तमं सूक्तं पञ्चविंशो वर्गश्च समाप्तः ॥

    इस भाष्य को एडिट करें
    Top