ऋग्वेद - मण्डल 5/ सूक्त 81/ मन्त्र 1
यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चितः॑। वि होत्रा॑ दधे वयुना॒विदेक॒ इन्म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः ॥१॥
स्वर सहित पद पाठयु॒ञ्जते॑ । मनः॑ । उ॒त । यु॒ञ्जते॑ । धियः॑ । विप्राः॑ । विप्र॑स्य । बृ॒ह॒तः । वि॒पः॒ऽचितः॑ । वि । होत्राः॑ । द॒धे॒ । व॒यु॒न॒ऽवित् । एकः॑ । इत् । म॒ही । दे॒वस्य॑ । स॒वि॒तुः । परि॑ऽस्तुतिः ॥
स्वर रहित मन्त्र
युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः। वि होत्रा दधे वयुनाविदेक इन्मही देवस्य सवितुः परिष्टुतिः ॥१॥
स्वर रहित पद पाठयुञ्जते। मनः। उत। युञ्जते। धियः। विप्राः। विप्रस्य। बृहतः। विपःऽचितः। वि। होत्राः। दधे। वयुनऽवित्। एकः। इत्। मही। देवस्य। सवितुः। परिऽस्तुतिः ॥१॥
ऋग्वेद - मण्डल » 5; सूक्त » 81; मन्त्र » 1
अष्टक » 4; अध्याय » 4; वर्ग » 24; मन्त्र » 1
अष्टक » 4; अध्याय » 4; वर्ग » 24; मन्त्र » 1
विषयः - अथ योगिनः किं कुर्वन्तीत्याह ॥
अन्वयः - हे मनुष्या! यथा होत्रा विप्रा विप्रस्य बृहतो विपश्चितः सवितुर्देवस्य परमात्मनो मध्ये मनो युञ्जत उत धियो युञ्जते यो वयुनाविदेक इदेव सर्वं जगद्वि दधे यस्य मही परिष्टुतिरस्ति तथा तस्मिन्यूयमपि चित्तं धत्त ॥१॥
पदार्थः -
(युञ्जते) समादधाति (मनः) मननात्मकम् (उत) अपि (युञ्जते) (धियः) प्रज्ञाः (विप्राः) मेधाविनो योगिनः (विप्रस्य) विशेषेण प्राति व्याप्नोति तस्य (बृहतः) महतः (विपश्चितः) अनन्तविद्यस्य (वि) (होत्राः) आदातारो दातारो वा (दधे) दधाति (वयुनावित्) यो वुयनानि प्रज्ञानानि वेत्ति। अत्रान्येषामपीत्युपधाया दीर्घः। (एकः) अद्वितीयोऽसहायः (इत्) एव (मही) महती पूज्या (देवस्य) सर्वस्य जगतः प्रकाशकस्य (सवितुः) सकलजगदुत्पादकस्य (परिष्टुतिः) परितो व्याप्ता चासौ स्तुतिश्च ॥१॥
भावार्थः - अनेकविद्याबृंहितस्य बुद्ध्यादिपदार्थाधिष्ठानस्य जगदीश्वरस्य मध्ये ये मनो बुद्धिं वा निदधति ते सर्वमैहिकं पारलौकिकं सुखं चाप्नुवन्ति ॥१॥
इस भाष्य को एडिट करें