Loading...
ऋग्वेद मण्डल - 6 के सूक्त 13 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 13/ मन्त्र 1
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - अग्निः छन्दः - पङ्क्तिः स्वरः - पञ्चमः

    त्वद् विश्वा॑ सुभग॒ सौभ॑गा॒न्यग्ने॒ वि य॑न्ति व॒निनो॒ न व॒याः। श्रु॒ष्टी र॒यिर्वाजो॑ वृत्र॒तूर्ये॑ दि॒वो वृ॒ष्टिरीड्यो॑ री॒तिर॒पाम् ॥१॥

    स्वर सहित पद पाठ

    त्वत् । विश्वा॑ । सु॒ऽभ॒ग॒ । सौभ॑गानि । अग्ने॑ । वि । या॒न्ति॒ । व॒निनः॑ । न । व॒याः । श्रु॒ष्टी । र॒यिः । वाजः॑ । वृ॒त्र॒ऽतूर्ये॑ । दि॒वः । वृ॒ष्टिः । ईड्यः॑ । री॒तिः । अ॒पाम् ॥


    स्वर रहित मन्त्र

    त्वद् विश्वा सुभग सौभगान्यग्ने वि यन्ति वनिनो न वयाः। श्रुष्टी रयिर्वाजो वृत्रतूर्ये दिवो वृष्टिरीड्यो रीतिरपाम् ॥१॥

    स्वर रहित पद पाठ

    त्वत्। विश्वा। सुऽभग। सौभगानि। अग्ने। वि। यन्ति। वनिनः। न। वयाः। श्रुष्टी। रयिः। वाजः। वृत्रऽतूर्ये। दिवः। वृष्टिः। ईड्यः। रीतिः। अपाम् ॥१॥

    ऋग्वेद - मण्डल » 6; सूक्त » 13; मन्त्र » 1
    अष्टक » 4; अध्याय » 5; वर्ग » 15; मन्त्र » 1

    अन्वयः - हे सुभगाऽग्ने राजन् ! वनिनो वया न जनास्त्वद्विश्वा सौभगानि वि यन्ति वृत्रतूर्य्ये दिवोऽपां वृष्टिरिव रीतिरीड्यो रयिर्वाजश्च श्रुष्टी यन्ति तस्माद्भवान्त्सत्कर्त्तव्यो भवति ॥१॥

    पदार्थः -
    (त्वत्) (विश्वा) सर्वाणि (सुभग) शोभनैश्वर्य्य (सौभगानि) सुभगानामैश्वर्य्याणां भावान् (अग्ने) वह्निरिव विद्वन् (वि) (यन्ति) प्राप्नुवन्ति (वनिनः) वनसम्बन्धिनः (न) इव (वयाः) पक्षिणः (श्रुष्टी) क्षिप्रम्। अत्र संहितायामिति दीर्घः। (रयिः) धनम् (वाजः) अन्नम् (वृत्रतूर्य्ये) वृत्रस्यमेघस्य तूर्य्यं हननं यत्र तद्वद्वर्त्तमाने सङ्ग्रामे (दिवः) अन्तरिक्षात् (वृष्टिः) (ईड्यः) स्तोतुमर्हः (रीतिः) श्लिष्टो गन्ता गमयिता वा (अपाम्) जलानाम् ॥१॥

    भावार्थः - अत्रोपमालङ्कारः। यथा सूर्योऽन्तरिक्षाद् वृष्टिं कृत्वा सर्वं जगत् तर्पयति तथैव राजा न्याययुक्तात्पुरुषार्थादैश्वर्याणि वर्धयित्वा प्रजाः सततं तर्पयेत् ॥१॥

    इस भाष्य को एडिट करें
    Top