ऋग्वेद - मण्डल 6/ सूक्त 14/ मन्त्र 1
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - अग्निः
छन्दः - भुरिगुष्णिक्
स्वरः - ऋषभः
अ॒ग्ना यो मर्त्यो॒ दुवो॒ धियं॑ जु॒जोष॑ धी॒तिभिः॑। भस॒न्नु ष प्र पू॒र्व्य इषं॑ वुरी॒ताव॑से ॥१॥
स्वर सहित पद पाठअ॒ग्ना । यः । मर्त्यः॑ । दुवः॑ । धिय॑म् । जु॒जोष॑ । धी॒तिऽभिः॑ । भस॑त् । नु । सः । प्र । पू॒र्व्यः । इष॑म् । वु॒री॒त॒ । अव॑से ॥
स्वर रहित मन्त्र
अग्ना यो मर्त्यो दुवो धियं जुजोष धीतिभिः। भसन्नु ष प्र पूर्व्य इषं वुरीतावसे ॥१॥
स्वर रहित पद पाठअग्ना। यः। मर्त्यः। दुवः। धियम्। जुजोष। धीतिऽभिः। भसत्। नु। सः। प्र। पूर्व्यः। इषम्। वुरीत। अवसे ॥१॥
ऋग्वेद - मण्डल » 6; सूक्त » 14; मन्त्र » 1
अष्टक » 4; अध्याय » 5; वर्ग » 16; मन्त्र » 1
अष्टक » 4; अध्याय » 5; वर्ग » 16; मन्त्र » 1
विषयः - अथ मनुष्यैः किं कर्त्तव्यमित्याह ॥
अन्वयः - हे विद्वांसो ! यो मर्त्यो धीतिभिरग्ना दुवो धियं जुजोषाऽवसे पूर्व्यः प्र भसदिषं नु वुरीत स भाग्यशाली भवति ॥१॥
पदार्थः -
(अग्ना) अग्नौ (यः) (मर्त्यः) मनुष्यः (दुवः) परिचरणम् (धियम्) प्रज्ञां कर्म वा (जुजोष) (धीतिभिः) अङ्गुल्याद्यवयैः (भसत्) प्रकाशेत (नु) सद्यः (सः) (प्र) (पूर्व्यः) पूर्वैर्निष्पादितः (इषम्) अन्नं विज्ञानं वा (वुरीत) स्वीकुर्य्यात् (अवसे) रक्षणाद्याय ॥१॥
भावार्थः - ये मनुष्या आलस्यादिदोषान् विहाय धर्मेण पुरुषार्थं कुर्वन्ति ते सर्वमिष्टं सुखं लभन्ते ॥१॥
इस भाष्य को एडिट करें