ऋग्वेद - मण्डल 6/ सूक्त 25/ मन्त्र 1
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - इन्द्र:
छन्दः - पङ्क्तिः
स्वरः - पञ्चमः
या त॑ ऊ॒तिर॑व॒मा या प॑र॒मा या म॑ध्य॒मेन्द्र॑ शुष्मि॒न्नस्ति॑। ताभि॑रू॒ षु वृ॑त्र॒हत्ये॑ऽवीर्न ए॒भिश्च॒ वाजै॑र्म॒हान्न॑ उग्र ॥१॥
स्वर सहित पद पाठया । ते॒ । ऊ॒तिः । अ॒व॒मा । या । प॒र॒मा । या । म॒ध्य॒मा । इ॒न्द्र॒ । शु॒ष्मि॒न् । अस्ति॑ । ताभिः॑ । ऊँ॒ इति॑ । सु । वृ॒त्र॒ऽहत्ये॑ । अ॒वीः॒ । नः॒ । ए॒भिः । च॒ । वाजैः॑ । म॒हान् । नः॒ । उ॒ग्र॒ ॥
स्वर रहित मन्त्र
या त ऊतिरवमा या परमा या मध्यमेन्द्र शुष्मिन्नस्ति। ताभिरू षु वृत्रहत्येऽवीर्न एभिश्च वाजैर्महान्न उग्र ॥१॥
स्वर रहित पद पाठया। ते। ऊतिः। अवमा। या। परमा। या। मध्यमा। इन्द्र। शुष्मिन्। अस्ति। ताभिः। ऊँ इति। सु। वृत्रऽहत्ये। अवीः। नः। एभिः। च। वाजैः। महान्। नः। उग्र ॥१॥
ऋग्वेद - मण्डल » 6; सूक्त » 25; मन्त्र » 1
अष्टक » 4; अध्याय » 6; वर्ग » 19; मन्त्र » 1
अष्टक » 4; अध्याय » 6; वर्ग » 19; मन्त्र » 1
विषयः - अथ राजा किं कुर्यादित्याह ॥
अन्वयः - हे शुष्मिन्नुग्रेन्द्र ! ते याऽवमा या मध्यमा या परमोतिरस्ति ताभिर्वृत्रहत्ये नः स्ववीरू एभिर्वाजैश्च महान्त्सन्नोऽवीः ॥१॥
पदार्थः -
(या) (ते) तव (ऊतिः) रक्षा (अवमा) निकृष्टा (या) (परमा) उत्कृष्टा (या) (मध्यमा) (इन्द्र) न्यायाधीश राजन् (शुष्मिन्) प्रशंसितबलयुक्त (अस्ति) (ताभिः) (ऊ) (सु) (वृत्रहत्ये) मेघस्य हत्येव हननं यस्मिन्त्सङ्ग्रामे (अवीः) रक्षेः (नः) अस्मान् (एभिः) (च) (वाजैः) वेगादिभिः शुभैर्गुणैः (महान्) (नः) अस्मान् (उग्र) तेजस्विन् ॥१॥
भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः । हे राजन् ! यदि त्वं प्रजाः सर्वथा रक्षेस्तर्हि प्रजा अपि त्वां सर्वतो रक्षिष्यन्ति ॥१॥
इस भाष्य को एडिट करें