ऋग्वेद - मण्डल 6/ सूक्त 29/ मन्त्र 1
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - इन्द्र:
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
इन्द्रं॑ वो॒ नरः॑ स॒ख्याय॑ सेपुर्म॒हो यन्तः॑ सुम॒तये॑ चका॒नाः। म॒हो हि दा॒ता वज्र॑हस्तो॒ अस्ति॑ म॒हामु॑ र॒ण्वमव॑से यजध्वम् ॥१॥
स्वर सहित पद पाठइन्द्र॑म् । वः॒ । नरः॑ । स॒ख्याय॑ । से॒पुः॒ । म॒हः । यन्तः॑ । सु॒ऽम॒तये॑ । च॒का॒नाः । म॒हः । हि । दा॒ता । वज्र॑ऽहस्तः । अस्ति॑ । म॒हाम् । ऊँ॒ इति॑ । र॒ण्वम् । अव॑से । य॒ज॒ध्व॒म् ॥
स्वर रहित मन्त्र
इन्द्रं वो नरः सख्याय सेपुर्महो यन्तः सुमतये चकानाः। महो हि दाता वज्रहस्तो अस्ति महामु रण्वमवसे यजध्वम् ॥१॥
स्वर रहित पद पाठइन्द्रम्। वः। नरः। सख्याय। सेपुः। महः। यन्तः। सुऽमतये। चकानाः। महः। हि। दाता। वज्रऽहस्तः। अस्ति। महाम्। ऊँ इति। रण्वम्। अवसे। यजध्वम् ॥१॥
ऋग्वेद - मण्डल » 6; सूक्त » 29; मन्त्र » 1
अष्टक » 4; अध्याय » 7; वर्ग » 1; मन्त्र » 1
अष्टक » 4; अध्याय » 7; वर्ग » 1; मन्त्र » 1
विषयः - अथ मनुष्यैः कथं वर्त्तितव्यमित्याह ॥
अन्वयः - हे नरो ! ये महो यन्तः सुमतये चकाना वः सख्यायेन्द्रं सेपुर्हि यो महो दाता वज्रहस्तोऽस्ति तं रण्वं महामु अवसे रण्वं यजध्वम् ॥१॥
पदार्थः -
(इन्द्रम्) (वः) युष्माकम् (नरः) नायकाः (सख्याय) मित्रभावाय (सेपुः) शपथं कुर्युः (महः) महद्विज्ञानम् (यन्तः) (सुमतये) उत्तमप्रज्ञायै (चकानाः) कामयमानाः (महः) महतो विज्ञानस्य (हि) यतः (दाता) (वज्रहस्तः) शस्त्रास्त्रपाणिः (अस्ति) (महाम्) महान्तं महाशयं सर्वाध्यक्षम् (उ) (रण्वम्) रमणीयमुपदेशकम् (अवसे) रक्षणाद्याय (यजध्वम्) सङ्गच्छध्वं सत्कुरुत ॥१॥
भावार्थः - हे मनुष्या ! ये युष्माकं मित्रत्वाय दृढं शपथं कृत्वा तनुमनोधनैरुपकाराय यतन्ते तान् यूयं सर्वदा सत्कुरुत तैः सह सखित्वे वर्त्तध्वम् ॥१॥
इस भाष्य को एडिट करें