ऋग्वेद - मण्डल 6/ सूक्त 30/ मन्त्र 1
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - इन्द्र:
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
भूय॒ इद्वा॑वृधे वी॒र्या॑यँ॒ एको॑ अजु॒र्यो द॑यते॒ वसू॑नि। प्र रि॑रिचे दि॒व इन्द्रः॑ पृथि॒व्या अ॒र्धमिद॑स्य॒ प्रति॒ रोद॑सी उ॒भे ॥१॥
स्वर सहित पद पाठभूयः॑ । इत् । व॒वृ॒धे॒ । वी॒र्या॑य । एकः॑ । अ॒जु॒र्यः । द॒य॒ते॒ । वसू॑नि । प्र । रि॒रि॒चे॒ । दि॒वः । इन्द्रः॑ । पृ॒थि॒व्याः । अ॒र्धम् । इत् । अ॒स्य॒ । प्रति॑ । रोद॑सी॒ इति॑ । उ॒भे इति॑ ॥
स्वर रहित मन्त्र
भूय इद्वावृधे वीर्यायँ एको अजुर्यो दयते वसूनि। प्र रिरिचे दिव इन्द्रः पृथिव्या अर्धमिदस्य प्रति रोदसी उभे ॥१॥
स्वर रहित पद पाठभूयः। इत्। ववृधे। वीर्याय। एकः। अजुर्यः। दयते। वसूनि। प्र। रिरिचे। दिवः। इन्द्रः। पृथिव्याः। अर्धम्। इत्। अस्य। प्रति। रोदसी इति। उभे इति ॥१॥
ऋग्वेद - मण्डल » 6; सूक्त » 30; मन्त्र » 1
अष्टक » 4; अध्याय » 7; वर्ग » 2; मन्त्र » 1
अष्टक » 4; अध्याय » 7; वर्ग » 2; मन्त्र » 1
विषयः - अथ राजा कीदृशो भवेदित्याह ॥
अन्वयः - हे मनुष्या ! यथेन्द्रो दिवः पृथिव्याः अर्द्धमुभे रोदसी प्रत्यर्द्धं च प्रकाशते सर्वेभ्यः प्र रिरिचेऽश्येदेवाऽऽकर्षणेन सर्वे लोका वर्त्तन्ते तदिद्यो राजा वीर्याय भूयो वावृध एकोऽजुर्यः सन् वसूनि दयते स एव वरो जायते ॥१॥
पदार्थः -
(भूयः) (इत्) एव (वावृधे) वर्धते (वीर्याय) पराक्रमाय (एकः) असहायः (अजुर्यः) अजीर्णो युवा (दयते) ददाति (वसूनि) धनानि (प्र) (रिरिचे) रिणक्त्यतिरिक्तो भवति (दिवः) प्रकाशमानात् पदार्थान्तरात् (इन्द्रः) सूर्य इव (पृथिव्याः) भूमेः (अर्द्धम्) भूगोलार्द्धम् (इत्) इव (अस्य) (प्रति) (रोदसी) द्यावापृथिव्यौ (उभे) ॥१॥
भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। यो राजा सूर्यवच्छुभगुणैः सुसहायैः सुसामग्र्या च प्रकाशमानो यशस्वी जायते यथा सूर्यः सर्वेषां भूगोलानां सम्मुखे स्थितानां भूगोलार्धानां प्रकाशं करोति तथैव न्यायाऽन्याययोर्मध्ये न्यायमेव प्रकाशयेत् सर्वेभ्य उभयं च दद्यात् ॥१॥
इस भाष्य को एडिट करें