ऋग्वेद - मण्डल 6/ सूक्त 33/ मन्त्र 1
य ओजि॑ष्ठ इन्द्र॒ तं सु नो॑ दा॒ मदो॑ वृषन्त्स्वभि॒ष्टिर्दास्वा॑न्। सौव॑श्व्यं॒ यो व॒नव॒त्स्वश्वो॑ वृ॒त्रा स॒मत्सु॑ सा॒सह॑द॒मित्रा॑न् ॥१॥
स्वर सहित पद पाठयः । ओजि॑ष्ठः । इ॒न्द्र॒ । तम् । सु । नः॒ । दाः॒ । मदः॑ । वृ॒ष॒न् । सु॒ऽअ॒भि॒ष्टिः । दास्वा॑न् । सौव॑श्व्यम् । यः । व॒नऽव॑त् । सु॒ऽअश्वः॑ । वृ॒त्रा । स॒मत्ऽसु॑ । स॒सह॑त् । अ॒मित्रा॑न् ॥
स्वर रहित मन्त्र
य ओजिष्ठ इन्द्र तं सु नो दा मदो वृषन्त्स्वभिष्टिर्दास्वान्। सौवश्व्यं यो वनवत्स्वश्वो वृत्रा समत्सु सासहदमित्रान् ॥१॥
स्वर रहित पद पाठयः। ओजिष्ठः। इन्द्र। तम्। सु। नः। दाः। मदः। वृषन्। सुऽअभिष्टिः। दास्वान्। सौवश्व्यम्। यः। वनऽवत्। सुऽअश्वः। वृत्रा। समत्ऽसु। ससहत्। अमित्रान् ॥१॥
ऋग्वेद - मण्डल » 6; सूक्त » 33; मन्त्र » 1
अष्टक » 4; अध्याय » 7; वर्ग » 5; मन्त्र » 1
अष्टक » 4; अध्याय » 7; वर्ग » 5; मन्त्र » 1
विषयः - अथ नृपः किं कृत्वा किं कारयेदित्याह ॥
अन्वयः - हे वृषन्निन्द्र ! य ओजिष्ठो मदः स्वभिष्टिर्दास्वान् स त्वं नः सौवश्व्यं सु दाः। यः स्वश्वः सन् वृत्रा वनवत् समत्स्वमित्रान्त्सासहत् तं वयं सत्कुर्याम ॥१॥
पदार्थः -
(यः) (ओजिष्ठः) अतिशयेन बली (इन्द्र) ऐश्वर्यप्रद (तम्) (सु) (नः) (अस्मभ्यम्) (दाः) देहि (मदः) हर्षितः (वृषन्) तेजस्विन् (स्वभिष्टिः) सुष्ठ्वभिनता सङ्गतिर्यस्य सः (दास्वान्) दाता (सौवश्व्यम्) शोभनेष्वश्वेषु महत्सु पदार्थेषु वा भवम् (यः) (वनवत्) याचते (स्वश्वः) शोभना अश्वा यस्य सः (वृत्रा) धनानि (समत्सु) सङ्ग्रामेषु (सासहत्) भृशं सहते (अमित्रान्) शत्रून् ॥१॥
भावार्थः - योऽभयदाता सङ्ग्रामेषु विजेता स्वं बलमहर्निशं वर्धयति स एव सर्वान् सुखयितुमर्हति ॥१॥
इस भाष्य को एडिट करें