ऋग्वेद - मण्डल 6/ सूक्त 35/ मन्त्र 5
तमा नू॒नं वृ॒जन॑म॒न्यथा॑ चि॒च्छूरो॒ यच्छ॑क्र॒ वि दुरो॑ गृणी॒षे। मा निर॑रं शुक्र॒दुघ॑स्य धे॒नोरा॑ङ्गिर॒सान्ब्रह्म॑णा विप्र जिन्व ॥५॥
स्वर सहित पद पाठतम् । आ । नू॒नम् । वृ॒जन॑म् । अ॒न्यथा॑ । चि॒त् । शूरः॑ । यत् । श॒क्र॒ । वि । दुरः॑ । गृ॒णी॒षे । मा । निः । अ॒र॒म् । शु॒क्र॒ऽदुघ॑स्य । धे॒नोः । आ॒ङ्गि॒र॒सान् । ब्रह्म॑णा । वि॒प्र॒ । जि॒न्व॒ ॥
स्वर रहित मन्त्र
तमा नूनं वृजनमन्यथा चिच्छूरो यच्छक्र वि दुरो गृणीषे। मा निररं शुक्रदुघस्य धेनोराङ्गिरसान्ब्रह्मणा विप्र जिन्व ॥५॥
स्वर रहित पद पाठतम्। आ। नूनम्। वृजनम्। अन्यथा। चित्। शूरः। यत्। शक्र। वि। दुरः। गृणीषे। मा। निः। अरम्। शुक्रऽदुघस्य। धेनोः। आङ्गिरसान्। ब्रह्मणा। विप्र। जिन्व ॥५॥
ऋग्वेद - मण्डल » 6; सूक्त » 35; मन्त्र » 5
अष्टक » 4; अध्याय » 7; वर्ग » 7; मन्त्र » 5
अष्टक » 4; अध्याय » 7; वर्ग » 7; मन्त्र » 5
विषयः - पुनर्मनुष्यैः किं कर्तव्यमित्याह ॥
अन्वयः - हे विप्रशक्रेन्द्र ! यद् वृजनं नूनमाऽऽगृणीषे तञ्चिन्निर्गृणीषे शूरस्त्वं दुरो जिन्व। शुक्रदुघस्य धेनोश्चाङ्गिरसान् ब्रह्मणाऽरं वि जिन्व। कदाचिदन्यथा मा कुर्याः ॥५॥
पदार्थः -
(तम्) (आ) (नूनम्) निश्चितम् (वृजनम्) व्रजन्ति येन यस्मिन् वा (अन्यथा) (चित्) अपि (शूरः) निर्भयः शत्रुहन्ता (यत्) (शक्र) शक्तिमन् (वि) (दुरः) द्वाराणि (गृणीषे) प्रशंससि (मा) (निः) नितराम् (अरम्) अलम् (शुक्रदुघस्य) आशुपूर्तिकर्त्र्याः (धेनोः) वाचः (आङ्गिरसान्) अङ्गिरःसु प्राणेषु साधून् (ब्रह्मणा) महता धनेनान्नेन वा (विप्र) मेधाविन् (जिन्व) प्रीणीहि ॥५॥
भावार्थः - ये राजादयो जनाः प्रजाः सुखेनालङ्कृत्यान्यायादन्यथाचरणं न कुर्वन्ति ते समग्रैश्वर्येण युक्ता जायन्ते ॥५॥ अत्रेन्द्रविद्वद्राजप्रजागुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इति पञ्चत्रिंशत्तमं सूक्तं सप्तमो वर्गश्च समाप्तः ॥
इस भाष्य को एडिट करें