ऋग्वेद - मण्डल 6/ सूक्त 46/ मन्त्र 11
ऋषिः - शंयुर्बार्हस्पत्यः
देवता - इन्द्रः प्रगाथो वा
छन्दः - निचृद्बृहती
स्वरः - मध्यमः
अध॑ स्मा नो वृ॒धे भ॒वेन्द्र॑ ना॒यम॑वा यु॒धि। यद॒न्तरि॑क्षे प॒तय॑न्ति प॒र्णिनो॑ दि॒द्यव॑स्ति॒ग्ममू॑र्धानः ॥११॥
स्वर सहित पद पाठअध॑ । स्म॒ । नः॒ । वृ॒धे । भ॒व॒ । इन्द्र॑ । न । अ॒यम् । अ॒व॒ । यु॒धि । यत् । अ॒न्तरि॑क्षे । प॒तय॑न्ति । प॒र्णिनः॑ । दि॒द्यवः॑ । ति॒ग्मऽमू॑र्धानः ॥
स्वर रहित मन्त्र
अध स्मा नो वृधे भवेन्द्र नायमवा युधि। यदन्तरिक्षे पतयन्ति पर्णिनो दिद्यवस्तिग्ममूर्धानः ॥११॥
स्वर रहित पद पाठअध। स्म। नः। वृधे। भव। इन्द्र। नायम्। अव। युधि। यत्। अन्तरिक्षे। पतयन्ति। पर्णिनः। दिद्यवः। तिग्मऽमूर्धानः ॥११॥
ऋग्वेद - मण्डल » 6; सूक्त » 46; मन्त्र » 11
अष्टक » 4; अध्याय » 7; वर्ग » 29; मन्त्र » 1
अष्टक » 4; अध्याय » 7; वर्ग » 29; मन्त्र » 1
विषयः - पुनः स राजा किं कुर्य्यादित्याह ॥
अन्वयः - हे इन्द्र ! यद्येऽन्तरिक्षे पर्णिन इव दिद्यवस्तिग्ममूर्द्धानो योद्धारो युधि पतयन्त्यध विजयं नायं प्रयतन्ते तैः सह नो वृधे भव युध्यस्मान् स्मा सततमवा ॥११॥
पदार्थः -
(अध) आनन्तर्य्ये (स्मा) एव। अत्र निपातस्य चेति दीर्घः। (नः) अस्माकम् (वृधे) (भव) (इन्द्र) ऐश्वर्यवर्धक (नायम्) नेतुम् (अवा) रक्ष। अत्र द्व्यचोऽतस्तिङ इति दीर्घः। (युधि) सङ्ग्रामे (यत्) (अन्तरिक्षे) (पतयन्ति) गच्छन्ति (पर्णिनः) पक्षिणः (दिद्यवः) प्रकाशमानाः (तिग्ममूर्द्धानः) तिग्म उपरि वर्त्तमानाः ॥११॥
भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। हे राजन् ! भवान् विमानादीनि यानानि संस्थाप्य पक्षिवदन्तरिक्षमार्गेण गमनागमने कृत्वोत्तमैः पुरुषैः सह विजयं प्राप्य सर्वोत्कृष्टो भव ॥११॥
इस भाष्य को एडिट करें