Loading...
ऋग्वेद मण्डल - 6 के सूक्त 46 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 46/ मन्त्र 13
    ऋषिः - शंयुर्बार्हस्पत्यः देवता - इन्द्रः प्रगाथो वा छन्दः - बृहती स्वरः - मध्यमः

    यदि॑न्द्र॒ सर्गे॒ अर्व॑तश्चो॒दया॑से महाध॒ने। अ॒स॒म॒ने अध्व॑नि वृजि॒ने प॒थि श्ये॒नाँइ॑व श्रवस्य॒तः ॥१३॥

    स्वर सहित पद पाठ

    यत् । इ॒न्द्र॒ । सर्गे॑ । अर्व॑तः । चो॒दया॑से । म॒हा॒ऽध॒ने । अ॒स॒म॒ने । अध्व॑नि । वृ॒जि॒ने । प॒थि । श्ये॒नान्ऽइ॑व । श्र॒व॒स्य॒तः ॥


    स्वर रहित मन्त्र

    यदिन्द्र सर्गे अर्वतश्चोदयासे महाधने। असमने अध्वनि वृजिने पथि श्येनाँइव श्रवस्यतः ॥१३॥

    स्वर रहित पद पाठ

    यत्। इन्द्र। सर्गे। अर्वतः। चोदयासे। महाऽधने। असमने। अध्वनि। वृजिने। पथि। श्येनान्ऽइव। श्रवस्यतः ॥१३॥

    ऋग्वेद - मण्डल » 6; सूक्त » 46; मन्त्र » 13
    अष्टक » 4; अध्याय » 7; वर्ग » 29; मन्त्र » 3

    अन्वयः - हे इन्द्र ! यद्यत्र सर्गे महाधनेऽसमने वृजिनेऽध्वनि पथि श्येनानिव श्रवस्यतोऽर्वतश्व चोदयासे तत्र ते दूरस्थमपि स्थानं निकटमिव स्यात् ॥१३॥

    पदार्थः -
    (यत्) यस्मिन् (इन्द्र) वीरशत्रुविदारक (सर्गे) संस्रष्टुमर्हे (अर्वतः) अश्वादीन् (चोदयासे) चोदय (महाधने) महान्ति धनानि यस्मात् तस्मिन् (असमने) अविद्यमानं समनं सङ्ग्रामो यस्मिँस्तस्मिन् (अध्वनि) मार्गे (वृजिने) बले (पथि) (श्येनानिव) (श्रवस्यतः) आत्मनः श्रव इच्छतः ॥१३॥

    भावार्थः - हे राजन् ! युद्धमन्तरापि यदा यदा कार्यार्थं गमनं भवान् कुर्य्यात्तदा तदा सद्य एव गन्तव्यं, शैथिल्यं पद्भ्यां यानेन वा गमने नैव कार्यम् ॥१३॥

    इस भाष्य को एडिट करें
    Top