ऋग्वेद - मण्डल 6/ सूक्त 5/ मन्त्र 1
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - अग्निः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
हु॒वे वः॑ सू॒नुं सह॑सो॒ युवा॑न॒मद्रो॑घवाचं म॒तिभि॒र्यवि॑ष्ठम्। य इन्व॑ति॒ द्रवि॑णानि॒ प्रचे॑ता वि॒श्ववा॑राणि पुरु॒वारो॑ अ॒ध्रुक् ॥१॥
स्वर सहित पद पाठहु॒वे । वः॒ । सू॒नुम् । सह॑सः । युवा॑नम् । अद्रो॑घऽवाचम् । म॒तिऽभिः॑ । यवि॑ष्ठम् । यः । इन्व॑ति । द्रवि॑णानि । प्रऽचे॑ताः । वि॒श्वऽवा॑राणि । पु॒रु॒ऽवारः॑ । अ॒ध्रुक् ॥
स्वर रहित मन्त्र
हुवे वः सूनुं सहसो युवानमद्रोघवाचं मतिभिर्यविष्ठम्। य इन्वति द्रविणानि प्रचेता विश्ववाराणि पुरुवारो अध्रुक् ॥१॥
स्वर रहित पद पाठहुवे। वः। सूनुम्। सहसः। युवानम्। अद्रोघऽवाचम्। मतिऽभिः। यविष्ठम्। यः। इन्वति। द्रविणानि। प्रऽचेताः। विश्वऽवाराणि। पुरुऽवारः। अध्रुक् ॥१॥
ऋग्वेद - मण्डल » 6; सूक्त » 5; मन्त्र » 1
अष्टक » 4; अध्याय » 5; वर्ग » 7; मन्त्र » 1
अष्टक » 4; अध्याय » 5; वर्ग » 7; मन्त्र » 1
विषयः - अथ मनुष्यैः किं ग्राह्यमित्याह ॥
अन्वयः - हे मनुष्या ! यः प्रचेताः पुरुवारोऽध्रुग् विश्ववाराणि द्रविणानीन्वति तं मतिभिः सह वर्त्तमानं सहसः सूनुं युवानमद्रोघवाचं यविष्ठं वो हुवे ॥१॥
पदार्थः -
(हुवे) आदद्मि (वः) युष्मभ्यम् (सूनुम्) अपत्यम् (सहसः) बलस्य (युवानम्) प्राप्तयौवनम् (अद्रोघवाचम्) अद्रोघा द्रोहरहिता वाग्यस्य तम् (मतिभिः) मनुष्यैः प्रज्ञाभिर्वा (यविष्ठम्) अतिशयेन युवानम् (यः) (इन्वति) व्याप्नोति (द्रविणानि) द्रव्याणि (प्रचेताः) प्रकृष्टं चेतः प्रज्ञा यस्य सः (विश्ववाराणि) विश्वैः सर्वैर्वरणीयानि (पुरुवारः) बहुभिर्वृतः स्वीकृतः (अध्रुक्) यो न द्रुह्यति ॥१॥
भावार्थः - हे मनुष्या ! युष्माभिर्ये पक्षपातरहितवादा द्रोहरहिता बुद्धिमतां सङ्गसेविनो बहुभिर्विद्वद्भिः पूजिता ब्रह्मचर्य्येण पूर्णयुवावस्था विद्वांसः स्युस्तेषामेवोपदेशो ग्रहीतव्यः ॥१॥
इस भाष्य को एडिट करें