ऋग्वेद - मण्डल 6/ सूक्त 50/ मन्त्र 1
हु॒वे वो॑ दे॒वीमदि॑तिं॒ नमो॑भिर्मृळी॒काय॒ वरु॑णं मि॒त्रम॒ग्निम्। अ॒भि॒क्ष॒दाम॑र्य॒मणं॑ सु॒शेवं॑ त्रा॒तॄन्दे॒वान्त्स॑वि॒तारं॒ भगं॑ च ॥१॥
स्वर सहित पद पाठहु॒वे । वः॒ । दे॒वीम् । अदि॑तिम् । नमः॑ऽभिः । मृ॒ळी॒काय॑ । वरु॑णम् । मि॒त्रम् । अ॒ग्निम् । अ॒भि॒ऽक्ष॒दाम् । अ॒र्य॒मण॑म् । सु॒ऽशेव॑म् । त्रा॒तॄन् । दे॒वान् । स॒वि॒तार॑म् । भग॑म् । च॒ ॥
स्वर रहित मन्त्र
हुवे वो देवीमदितिं नमोभिर्मृळीकाय वरुणं मित्रमग्निम्। अभिक्षदामर्यमणं सुशेवं त्रातॄन्देवान्त्सवितारं भगं च ॥१॥
स्वर रहित पद पाठहुवे। वः। देवीम्। अदितिम्। नमःऽभिः। मृळीकाय। वरुणम्। मित्रम्। अग्निम्। अभिऽक्षदाम्। अर्यमणम्। सुऽशेवम्। त्रातॄन्। देवान्। सवितारम्। भगम्। च ॥१॥
ऋग्वेद - मण्डल » 6; सूक्त » 50; मन्त्र » 1
अष्टक » 4; अध्याय » 8; वर्ग » 8; मन्त्र » 1
अष्टक » 4; अध्याय » 8; वर्ग » 8; मन्त्र » 1
विषयः - अथ विद्वांसः किमर्थं किं कुर्य्युरित्याह ॥
अन्वयः - हे मनुष्या ! यथाऽहं नमोभिर्वोऽभिक्षदां मृळीकायाऽदितिं देवीं वरुणं मित्रमग्निमर्यमणं सुशेवं त्रातॄन् देवान् सवितारं भगं च हुवे तथैतानस्मदर्थं यूयमाह्वयत ॥१॥
पदार्थः -
(हुवे) आह्वयाम्याददे वा (वः) युष्माकम् (देवीम्) देदीप्यमानां विदुषीम् (अदितिम्) अमातरम् (नमोभिः) सत्कारान्नादिभिः (मृळीकाय) सुखाय (वरुणम्) उदानमिवोत्कृष्टम् (मित्रम्) प्राण इव प्रियम् (अग्निम्) पावकम् (अभिक्षदाम्) ये भिक्षां न ददति तेषाम् (अर्यमणम्) न्यायकारिणम् (सुशेवम्) सुष्ठुसुखम् (त्रातॄन्) रक्षकान् (देवान्) विदुषः (सवितारम्) सत्कर्मसु प्रेरकं राजानम् (भगम्) ऐश्वर्य्यम् (च) ॥१॥
भावार्थः - ये विद्वांसः सुपात्रेभ्यो भिक्षां प्रददति सर्वान् पुरुषार्थिनः कृत्वैतदर्थं विदुषीं मातरं वरुणादींश्चाददति ते जगद्धितैषिणः सन्ति ॥१॥
इस भाष्य को एडिट करें