ऋग्वेद - मण्डल 6/ सूक्त 54/ मन्त्र 1
सं पू॑षन्वि॒दुषा॑ नय॒ यो अञ्ज॑सानु॒शास॑ति। य ए॒वेदमिति॒ ब्रव॑त् ॥१॥
स्वर सहित पद पाठसम् । पू॒ष॒न् । वि॒दुषा॑ । न॒य॒ । यः । अञ्ज॑सा । अ॒नु॒ऽशास॑ति । यः । ए॒व । इ॒दम् इति॑ । ब्रव॑त् ॥
स्वर रहित मन्त्र
सं पूषन्विदुषा नय यो अञ्जसानुशासति। य एवेदमिति ब्रवत् ॥१॥
स्वर रहित पद पाठसम्। पूषन्। विदुषा। नय। यः। अञ्जसा। अनुऽशासति। यः। एव। इदम् इति। ब्रवत् ॥१॥
ऋग्वेद - मण्डल » 6; सूक्त » 54; मन्त्र » 1
अष्टक » 4; अध्याय » 8; वर्ग » 19; मन्त्र » 1
अष्टक » 4; अध्याय » 8; वर्ग » 19; मन्त्र » 1
विषयः - अथ मनुष्यैः कस्य सङ्ग एष्टव्य इत्याह ॥
अन्वयः - हे पूषन् विद्वन् ! य इदमित्थमेवेति ब्रवद्यः सत्यमनुशासति तेन विदुषा सहाऽस्मानञ्जसा सन्नय ॥१॥
पदार्थः -
(सम्) (पूषन्) (विदुषा) (नय) (यः) (अञ्जसा) (अनुशासति) अनुशासनं करोति। अत्र बहुलं छन्दसीति शपो लुङ् न। (यः) (एव) (इदम्) (इति) (ब्रवत्) उपदिशेत् ॥१॥
भावार्थः - हे विद्वन् ! अस्मान् ये सत्यपदिशेयुस्तान् सत्कृत्य तेषां सङ्गेन वयं विद्वांसो भूत्वोपदेष्टारो भवेम ॥१॥
इस भाष्य को एडिट करें