ऋग्वेद - मण्डल 6/ सूक्त 56/ मन्त्र 1
य ए॑नमा॒दिदे॑शति कर॒म्भादिति॑ पू॒षण॑म्। न तेन॑ दे॒व आ॒दिशे॑ ॥१॥
स्वर सहित पद पाठयः । ए॒न॒म् । आ॒ऽदिदे॑शति । क॒र॒म्भ॒ऽअत् । इति॑ । पू॒षण॑म् । न । तेन॑ । दे॒वः । आ॒ऽदिशे॑ ॥
स्वर रहित मन्त्र
य एनमादिदेशति करम्भादिति पूषणम्। न तेन देव आदिशे ॥१॥
स्वर रहित पद पाठयः। एनम्। आऽदिदेशति। करम्भऽअत्। इति। पूषणम्। न। तेन। देवः। आऽदिशे ॥१॥
ऋग्वेद - मण्डल » 6; सूक्त » 56; मन्त्र » 1
अष्टक » 4; अध्याय » 8; वर्ग » 22; मन्त्र » 1
अष्टक » 4; अध्याय » 8; वर्ग » 22; मन्त्र » 1
विषयः - अथ केन कस्मै किमुपदेष्टव्यमित्याह ॥
अन्वयः - यः करम्भाद्देव एनं पूषणमादिदेशति इति तेन सहाऽहमन्यथा नादिशे ॥१॥
पदार्थः -
(यः) (एनम्) विद्युदादिस्वरूपम् (आदिदेशति) समन्तात् सम्यगुपदिशति (करम्भात्) यः करम्भमन्नविशेषमत्ति सः (इति) अनेन प्रकारेण (पूषणम्) पोषकम् (न) (तेन) (देवः) विद्वान् (आदिशे) अभिप्रशंसे ॥१॥
भावार्थः - ये मनुष्याः सत्यमुपदिशन्ति ते सर्वानन्दं प्राप्नुवन्ति ॥१॥
इस भाष्य को एडिट करें