Loading...
ऋग्वेद मण्डल - 6 के सूक्त 58 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 58/ मन्त्र 3
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - पूषा छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    यास्ते॑ पूष॒न्नावो॑ अ॒न्तः स॑मु॒द्रे हि॑र॒ण्ययी॑र॒न्तरि॑क्षे॒ चर॑न्ति। ताभि॑र्यासि दू॒त्यां सूर्य॑स्य॒ कामे॑न कृत॒ श्रव॑ इ॒च्छमा॑नः ॥३॥

    स्वर सहित पद पाठ

    याः । ते॒ । पू॒ष॒न् । नावः॑ । अ॒न्तरिति॑ । स॒मु॒द्रे । हि॒र॒ण्ययीः॑ । अ॒न्तरि॑क्षे । चर॑न्ति । ताभिः॑ । या॒सि॒ । दू॒त्याम् । सूर्य॑स्य । कामे॑न । कृ॒त॒ । श्रवः॑ । इ॒च्छमा॑नः ॥


    स्वर रहित मन्त्र

    यास्ते पूषन्नावो अन्तः समुद्रे हिरण्ययीरन्तरिक्षे चरन्ति। ताभिर्यासि दूत्यां सूर्यस्य कामेन कृत श्रव इच्छमानः ॥३॥

    स्वर रहित पद पाठ

    याः। ते। पूषन्। नावः। अन्तरिति। समुद्रे। हिरण्ययीः। अन्तरिक्षे। चरन्ति। ताभिः। यासि। दूत्याम्। सूर्यस्य। कामेन। कृत। श्रवः। इच्छमानः ॥३॥

    ऋग्वेद - मण्डल » 6; सूक्त » 58; मन्त्र » 3
    अष्टक » 4; अध्याय » 8; वर्ग » 24; मन्त्र » 3

    अन्वयः - हे कृत पूषन् ! यास्ते हिरण्ययीर्नावः समुद्रेऽन्तरिक्षेऽन्तश्चरन्ति ताभिः कामेन श्रव इच्छमानस्सूर्यस्य दूत्यामिव कामनां यासि तस्माद्धन्योऽसि ॥३॥

    पदार्थः -
    (याः) (ते) तव (पूषन्) भूमिरिव पुष्टियुक्त (नावः) प्रशंसनीया नौकाः (अन्तः) मध्ये (समुद्रे) सागरे (हिरण्ययीः) तेजोमय्यः सुवर्णादिसुभूषिताः (अन्तरिक्षे) आकाशे (चरन्ति) गच्छन्ति (ताभिः) (यासि) (दूत्याम्) दूतस्य क्रियामिव (सूर्यस्य) (कामेन) (कृत) यो विद्वान् कृतस्तत्सम्बुद्धौ (श्रवः) अन्नादिकम् (इच्छमानः) ॥३॥

    भावार्थः - ये मनुष्या सुदृढा नावो भूविमानानि भुव्यन्तरिक्षविमानान्यन्तरिक्षे च गमनाय रचयन्ति तैश्च देशदेशान्तरं गत्वाऽऽगत्य कामनामलं कुर्वन्ति त एव सूर्य्यवत् प्रकाशितकीर्त्तयो भवन्ति ॥३॥

    इस भाष्य को एडिट करें
    Top