ऋग्वेद - मण्डल 6/ सूक्त 63/ मन्त्र 11
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - अश्विनौ
छन्दः - आसुरीपङ्क्ति
स्वरः - पञ्चमः
आ वां॑ सु॒म्ने वरि॑मन्त्सू॒रिभिः॑ ष्याम् ॥११॥
स्वर सहित पद पाठआ । वा॒म् । सु॒म्ने । वरि॑मन् । सू॒रिऽभिः॑ । स्या॒म् ॥
स्वर रहित मन्त्र
आ वां सुम्ने वरिमन्त्सूरिभिः ष्याम् ॥११॥
स्वर रहित पद पाठआ। वाम्। सुम्ने। वरिमन्। सूरिऽभिः। स्याम् ॥११॥
ऋग्वेद - मण्डल » 6; सूक्त » 63; मन्त्र » 11
अष्टक » 5; अध्याय » 1; वर्ग » 4; मन्त्र » 6
अष्टक » 5; अध्याय » 1; वर्ग » 4; मन्त्र » 6
विषयः - पुनस्तमेव विषयमाह ॥
अन्वयः - हे राजसेनेशौ ! यथाऽहं सूरिभिः सह वरिमन् सुम्न आ स्यां तथा वां विदध्यातम् ॥११॥
पदार्थः -
(आ) समन्तात् (वाम्) युवाम् (सुम्ने) सुखे (वरिमन्) अतिशयेन श्रेष्ठे (सूरिभिः) विद्वद्भिः सह (स्याम्) भवेयम् ॥११॥
भावार्थः - राजसेनेशाभ्यां सर्वदा धार्मिका विद्वांसः सत्कर्त्तव्या येनैते सर्वस्य सुखमुन्नयेयुरिति ॥११॥ अत्राश्विगुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इति त्रिषष्टितमं सूक्तं चतुर्थो वर्गश्च समाप्तः ॥
इस भाष्य को एडिट करें