Loading...
ऋग्वेद मण्डल - 6 के सूक्त 66 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 66/ मन्त्र 1
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - मरुतः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    वपु॒र्नु तच्चि॑कि॒तुषे॑ चिदस्तु समा॒नं नाम॑ धे॒नु पत्य॑मानम्। मर्ते॑ष्व॒न्यद्दो॒हसे॑ पी॒पाय॑ स॒कृच्छु॒क्रं दु॑दुहे॒ पृश्नि॒रूधः॑ ॥१॥

    स्वर सहित पद पाठ

    वपुः॑ । नु । तत् । चि॒कि॒तुषे॑ । चि॒त् । अ॒स्तु॒ । स॒मा॒नम् । नाम॑ । धे॒नु । पत्य॑मानम् । मर्ते॑षु । अ॒न्यत् । दो॒हसे॑ । पी॒पाय॑ । स॒कृत् । शु॒क्रम् । दु॒दु॒हे॒ । पृश्निः॑ । ऊधः॑ ॥


    स्वर रहित मन्त्र

    वपुर्नु तच्चिकितुषे चिदस्तु समानं नाम धेनु पत्यमानम्। मर्तेष्वन्यद्दोहसे पीपाय सकृच्छुक्रं दुदुहे पृश्निरूधः ॥१॥

    स्वर रहित पद पाठ

    वपुः। नु। तत्। चिकितुषे। चित्। अस्तु। समानम्। नाम। धेनु। पत्यमानम्। मर्तेषु। अन्यत्। दोहसे। पीपाय। सकृत्। शुक्रम्। दुदुहे। पृश्निः। ऊधः ॥१॥

    ऋग्वेद - मण्डल » 6; सूक्त » 66; मन्त्र » 1
    अष्टक » 5; अध्याय » 1; वर्ग » 7; मन्त्र » 1

    अन्वयः - हे पत्नि ! यथोधः पृश्निश्च सकृञ्छुक्रं दुदुहे तथा धेन्विव त्वं मर्त्तेषु पत्यमानं पतिमन्यद्दोहसे पीपायैवं भूतायास्तव यच्चित्समानं वपुर्नाम च तच्चिकितुषे पत्ये न्वस्तु ॥१॥

    पदार्थः -
    (वपुः) सुरूपं शरीरम् (नु) सद्यः (तत्) (चिकितुषे) विज्ञानवते (चित्) अपि (अस्तु) (समानम्) (नाम) सञ्ज्ञा (धेनु) वाक्। अत्र विभक्तिलोपः। (पत्यमानम्) गम्यमानम् (मर्तेषु) मनुष्येषु (अन्यत्) (दोहसे) दोग्धुम् (पीपाय) आप्यायय (सकृत्) एकवारम् (शुक्रम्) आशुवीर्यकरम् (दुदुहे) पूरयति (पृश्निः) अन्तरिक्षम् (ऊधः) रात्रिः। ऊध इति रात्रिनाम। (निघं०१.७) ॥१॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। हे पुरुष ! यथा रात्रिरारान्मायाऽन्तरिक्षं वर्षाभ्योऽस्ति तथैव समानगुणकर्मस्वभावा पत्नी पत्युः सुखाय कल्पते यथा धेनुर्वत्सान् पालयति तथा विदुषी माता सन्तानान्यथावद्रक्षितुं शक्नोति ॥१॥

    इस भाष्य को एडिट करें
    Top