ऋग्वेद - मण्डल 6/ सूक्त 72/ मन्त्र 1
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - इन्द्रासोमौ
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
इन्द्रा॑सोमा॒ महि॒ तद्वां॑ महि॒त्वं यु॒वं म॒हानि॑ प्रथ॒मानि॑ चक्रथुः। यु॒वं सूर्यं॑ विवि॒दथु॑र्यु॒वं स्व१॒॑र्विश्वा॒ तमां॑स्यहतं नि॒दश्च॑ ॥१॥
स्वर सहित पद पाठइन्द्रा॑सोमा । महि॑ । तत् । वा॒म् । म॒हि॒ऽत्वम् । यु॒वम् । म॒हानि॑ । प्र॒थ॒मानि॑ । च॒क्र॒थुः॒ । यु॒वम् । सूर्य॑म् । वि॒वि॒दथुः॑ । यु॒वम् । स्वः॑ । विश्वा॑ । तमां॑सि । अ॒ह॒त॒म् । नि॒दः । च॒ ॥
स्वर रहित मन्त्र
इन्द्रासोमा महि तद्वां महित्वं युवं महानि प्रथमानि चक्रथुः। युवं सूर्यं विविदथुर्युवं स्व१र्विश्वा तमांस्यहतं निदश्च ॥१॥
स्वर रहित पद पाठइन्द्रासोमा। महि। तत्। वाम्। महिऽत्वम्। युवम्। महानि। प्रथमानि। चक्रथुः। युवम्। सूर्यम्। विविदथुः। युवम्। स्वः। विश्वा। तमांसि। अहतम्। निदः। च ॥१॥
ऋग्वेद - मण्डल » 6; सूक्त » 72; मन्त्र » 1
अष्टक » 5; अध्याय » 1; वर्ग » 16; मन्त्र » 1
अष्टक » 5; अध्याय » 1; वर्ग » 16; मन्त्र » 1
विषयः - अथाध्यापकोपदेशकौ किंवत् किं कुर्यातामित्याह ॥
अन्वयः - हे अध्यापकोपदेशकौ ! यथेन्द्रासोमा सूर्यं विविदथुस्तथा युवं न्यायार्कं प्राप्नुतं यथैतौ महान्ति कर्माणि कुरुतस्तथा वां तन्महि महित्वमस्ति तथा युवं महानि प्रथमानि चक्रथुः युवं यथैतौ विश्वा तमांसि हतस्तथाऽविद्याऽन्यायजनितानि पापान्यहतं स्वः प्राप्नुतं प्रापयेतं वा निदश्च सततं हन्यातम् ॥१॥
पदार्थः -
(इन्द्रासोमा) विद्युच्चन्द्रमसौ (महि) महत् (तत्) (वाम्) युवयोः (महित्वम्) (युवम्) युवाम् (महानि) पूजनीयानि (प्रथमानि) ब्रह्मचर्यविद्याग्रहणदानादीनि (चक्रथुः) कुर्य्यातम् (युवम्) युवाम् (सूर्यम्) (विविदथुः) विन्दतः। अत्र व्यत्ययः। (युवम्) युवाम् (स्वः) सुखम् (विश्वा) सर्वाणि (तमांसि) रात्रिरिवाऽविद्यादीनि (अहतम्) हन्यातम् (निदः) निन्दकान् (च) पाखण्डिनः ॥१॥
भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। हे प्रजाजना यथा सूर्यं प्राप्य चन्द्रादयो लोकाः प्रकाशिता भवन्ति तथैवाध्यापकोपदेशकौ सङ्गत्य सर्वे प्रकाशमात्मानो भवन्तु ॥१॥
इस भाष्य को एडिट करें