ऋग्वेद - मण्डल 7/ सूक्त 11/ मन्त्र 1
म॒हाँ अ॑स्यध्व॒रस्य॑ प्रके॒तो न ऋ॒ते त्वद॒मृता॑ मादयन्ते। आ विश्वे॑भिः स॒रथं॑ याहि दे॒वैर्न्य॑ग्ने॒ होता॑ प्रथ॒मः स॑दे॒ह ॥१॥
स्वर सहित पद पाठम॒हान् । अ॒सि॒ । अ॒ध्व॒रस्य॑ । प्र॒ऽके॒तः । न । ऋ॒ते । त्वत् । अ॒मृताः॑ । मा॒द॒य॒न्ते॒ । आ । विश्वे॑भिः । स॒रथ॑म् । या॒हि॒ । दे॒वैः । नि । अ॒ग्ने॒ । होता॑ । प्र॒थ॒मः । स॒द॒ । इ॒ह ॥
स्वर रहित मन्त्र
महाँ अस्यध्वरस्य प्रकेतो न ऋते त्वदमृता मादयन्ते। आ विश्वेभिः सरथं याहि देवैर्न्यग्ने होता प्रथमः सदेह ॥१॥
स्वर रहित पद पाठमहान्। असि। अध्वरस्य। प्रऽकेतः। न। ऋते। त्वत्। अमृताः। मादयन्ते। आ। विश्वेभिः। सरथम्। याहि। देवैः। नि। अग्ने। होता। प्रथमः। सद। इह ॥१॥
ऋग्वेद - मण्डल » 7; सूक्त » 11; मन्त्र » 1
अष्टक » 5; अध्याय » 2; वर्ग » 14; मन्त्र » 1
अष्टक » 5; अध्याय » 2; वर्ग » 14; मन्त्र » 1
विषयः - पुनर्मनुष्याः किं कुर्य्युरित्याह ॥
अन्वयः - हे अग्ने ! त्वमिह विश्वेभिर्देवैः सह प्रथमो होताऽस्मान् सरथं न्यायाहि यतस्त्वदृतेऽमृता न मादयन्ते तस्मात्त्वं सद त्वमध्वरस्य महान् प्रकेतोऽसि ॥१॥
पदार्थः -
(महान्) (असि) (अध्वरस्य) सर्वव्यवहारस्य (प्रकेतः) प्रकृष्टप्रज्ञावान् प्रज्ञापकः (न) निषेधे (ऋते) (त्वत्) (अमृताः) नाशरहिता जीवाः (मादयन्ते) आनन्दयन्ति (आ) (विश्वेभिः) सर्वैः (सरथम्) रमणीयेन स्वरूपेण सह वर्त्तमानम् (याहि) समन्तात्प्राप्नुहि (देवैः) विद्वद्भिः सह (नि) (अग्ने) स्वप्रकाशस्वरूप जगदीश्वर (होता) विद्यादिशुभगुणदाता (प्रथमः) आदिमः (सद) सीद (इह) ॥१॥
भावार्थः - हे मनुष्या ! येन विना न विद्या न सुखं लभ्यते यो विद्वत्सङ्गयोगाभ्यासधर्माचरणैः प्राप्योऽस्ति तमेव जगदीश्वरं सदोपाध्वम् ॥१॥
इस भाष्य को एडिट करें