Loading...
ऋग्वेद मण्डल - 7 के सूक्त 14 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 14/ मन्त्र 1
    ऋषिः - वसिष्ठः देवता - अग्निः छन्दः - निचृद्बृहती स्वरः - मध्यमः

    स॒मिधा॑ जा॒तवे॑दसे दे॒वाय॑ दे॒वहू॑तिभिः। ह॒विर्भिः॑ शु॒क्रशो॑चिषे नम॒स्विनो॑ व॒यं दा॑शेमा॒ग्नये॑ ॥१॥

    स्वर सहित पद पाठ

    स॒म्ऽइधा॑ । जा॒तऽवे॑दसे । दे॒वाय॑ । दे॒वऽहू॑तिभिः । ह॒विःऽभिः॑ । शु॒क्रऽशो॑चिषे । न॒म॒स्विनः॑ । व॒यम् । दा॒शे॒म॒ । अ॒ग्नये॑ ॥


    स्वर रहित मन्त्र

    समिधा जातवेदसे देवाय देवहूतिभिः। हविर्भिः शुक्रशोचिषे नमस्विनो वयं दाशेमाग्नये ॥१॥

    स्वर रहित पद पाठ

    सम्ऽइधा। जातऽवेदसे। देवाय। देवऽहूतिभिः। हविःऽभिः। शुक्रऽशोचिषे। नमस्विनः। वयम्। दाशेम। अग्नये ॥१॥

    ऋग्वेद - मण्डल » 7; सूक्त » 14; मन्त्र » 1
    अष्टक » 5; अध्याय » 2; वर्ग » 17; मन्त्र » 1

    अन्वयः - हे मनुष्या ! यथर्त्विग्यजमानाः समिधा हविर्भिरग्नये प्रयतन्ते तथा नमस्विनो वयं जातवेदसे शुक्रशोचिषे देवाय यतयेऽन्नादिकं दाशेम ॥१॥

    पदार्थः -
    (समिधा) प्रदीपनसाधनेन (जातवेदसे) जातेषु विद्यमानाय (देवाय) विदुषे (देवहूतिभिः) देवैः प्रशंसिताभिर्वाग्भिः (हविर्भिः) होमसाधनैः (शुक्रशोचिषे) शुक्रेण वीर्येण शोचिर्दीप्तिर्यस्य तस्मै (मनस्विनः) नमोऽन्नं सत्कारो वा विद्यते येषां ते (वयम्) (दाशेम) (अग्नये) पावकाय ॥१॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। यथा दीक्षिता अग्निहोत्रादौ यज्ञे घृताहुतिभिर्हुतेनाग्निना जगद्धितं कुर्वन्ति तथैव वयमतिथीनां संन्यासिनां सेवनेन मनुष्यकल्याणं कुर्याम ॥१॥

    इस भाष्य को एडिट करें
    Top