ऋग्वेद - मण्डल 7/ सूक्त 25/ मन्त्र 6
ए॒वा न॑ इन्द्र॒ वार्य॑स्य पूर्धि॒ प्र ते॑ म॒हीं सु॑म॒तिं वे॑विदाम। इषं॑ पिन्व म॒घव॑द्भ्यः सु॒वीरां॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥६॥
स्वर सहित पद पाठए॒व । नः॒ । इ॒न्द्र॒ । वार्य॑स्य । पू॒र्धि॒ । प्र । ते॒ । म॒हीम् । सु॒ऽम॒तिम् । वे॒वि॒दा॒म॒ । इष॑म् । पि॒न्व॒ । म॒घव॑त्ऽभ्यः । सु॒ऽवीरा॑म् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥
स्वर रहित मन्त्र
एवा न इन्द्र वार्यस्य पूर्धि प्र ते महीं सुमतिं वेविदाम। इषं पिन्व मघवद्भ्यः सुवीरां यूयं पात स्वस्तिभिः सदा नः ॥६॥
स्वर रहित पद पाठएव। नः। इन्द्र। वार्यस्य। पूर्धि। प्र। ते। महीम्। सुऽमतिम्। वेविदाम। इषम्। पिन्व। मघवत्ऽभ्यः। सुऽवीराम्। यूयम्। पात। स्वस्तिऽभिः। सदा। नः ॥६॥
ऋग्वेद - मण्डल » 7; सूक्त » 25; मन्त्र » 6
अष्टक » 5; अध्याय » 3; वर्ग » 9; मन्त्र » 6
अष्टक » 5; अध्याय » 3; वर्ग » 9; मन्त्र » 6
विषयः - पुनरुपदेष्ट्र्युपदेश्यगुणानाह ॥
अन्वयः - हे इन्द्र ! त्वं नो विद्यया सुशिक्षया प्र पूर्धि यतो वयं वार्यस्य ते सुमतिं महीं वेविदाम मघवद्भ्यः सुवीरामिषं प्राप्नुयामाऽत्र त्वमस्मान्पिन्व यूयं स्वस्तिभिर्नः सदैव पात ॥६॥
पदार्थः -
(एवा) अवधारणे। अत्र निपातस्य चेति दीर्घः। (नः) अस्मान् (इन्द्र) परमैश्वर्यप्रद (वार्यस्य) वरणीयस्य (पूर्धि) (प्र) (ते) तव (महीम्) महतीं वाचम् (सुमतिम्) शोभना मतिः प्रज्ञा यया ताम् (वेविदाम) प्राप्नुयाम (इषम्) विद्याम् (पिन्व) (मघवद्भ्यः) बहुधनयुक्तेभ्यः (सुवीराम्) शोभना वीरा विज्ञानवन्तो यस्यां ताम् (यूयम्) विज्ञानवन्तः (पात) (स्वस्तिभिः) सुखादिभिः (सदा) (नः) अस्मान् ॥६॥
भावार्थः - त एवाऽध्यापका धन्यवादार्हा भवन्ति ये विद्यार्थिनः सद्यो विदुषो धार्मिकान्कुर्वन्ति सदैव रक्षायां वर्त्तमानाः सन्तः सर्वानुन्नयन्तीति ॥६॥ अत्रेन्द्रसेनेशराजशस्त्राऽस्त्रग्रहणार्थवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इति पञ्चविंशतितमं सूक्तं नवमो वर्गश्च समाप्तः ॥
इस भाष्य को एडिट करें