Loading...
ऋग्वेद मण्डल - 7 के सूक्त 27 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 27/ मन्त्र 1
    ऋषिः - वसिष्ठः देवता - इन्द्र: छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    इन्द्रं॒ नरो॑ ने॒मधि॑ता हवन्ते॒ यत्पार्या॑ यु॒नज॑ते॒ धिय॒स्ताः। शूरो॒ नृषा॑ता॒ शव॑सश्चका॒न आ गोम॑ति व्र॒जे भ॑जा॒ त्वं नः॑ ॥१॥

    स्वर सहित पद पाठ

    इन्द्र॑म् । नरः॑ । ने॒मऽधि॑ता । ह॒व॒न्ते॒ । यत् । पार्याः॑ । यु॒नज॑ते । धियः॑ । ताः । शूरः॑ । नृऽसा॑ता । शव॑सः । च॒का॒नः । आ । गोम॑ति । व्र॒जे । भ॒ज॒ । त्वम् । नः॒ ॥


    स्वर रहित मन्त्र

    इन्द्रं नरो नेमधिता हवन्ते यत्पार्या युनजते धियस्ताः। शूरो नृषाता शवसश्चकान आ गोमति व्रजे भजा त्वं नः ॥१॥

    स्वर रहित पद पाठ

    इन्द्रम्। नरः। नेमऽधिता। हवन्ते। यत्। पार्याः। युनजते। धियः। ताः। शूरः। नृऽसाता। शवसः। चकानः। आ। गोमति। व्रजे। भज। त्वम्। नः ॥१॥

    ऋग्वेद - मण्डल » 7; सूक्त » 27; मन्त्र » 1
    अष्टक » 5; अध्याय » 3; वर्ग » 11; मन्त्र » 1

    अन्वयः - हे राजन् ! यः शूरो शवसश्चकानस्त्वं नृषाता गोमति व्रजे न आ भज [हे राजन् ! ] यमिन्द्रं त्वा यद्या पार्या धियो युनजते तास्त्वमाभज ये नरो नेमधिता त्वां हवन्ते ताँस्त्वमा भज ॥१॥

    पदार्थः -
    (इन्द्रम्) परमैश्वर्यप्रदं राजानम् (नरः) विद्यासु नेतारः (नेमधिता) नेमधितौ सङ्ग्रामे (हवन्ते) आह्वयन्ति (यत्) या (पार्याः) पालनीयाः (युनजते) युञ्जते। अत्र बहुलं छन्दसीत्यलोपो न। (धियः) प्रज्ञाः (ताः) (शूरः) शत्रूणां हिंसकः (नृषाता) नरः सीदन्ति यस्मिंस्तस्मिन् नृसातौ (शवसः) बलात् (चकानः) कामयमानः (आ) (गोमति) गावो विद्यन्ते यस्मिँस्तस्मिन् (व्रजे) व्रजन्ति यं तस्मिन् (भजा)। सेवस्व अत्र द्व्यचोऽतस्तिङ इति दीर्घः। (त्वम्) (नः) ॥१॥

    भावार्थः - यो ह्यत्र प्रशस्तप्रज्ञा सर्वदा बलवृद्धिमिच्छञ्छिष्टसम्मतो विद्वानुद्योगी धार्मिकः प्रजापालनतत्परो नरः स्यात्तमेव सर्वे कामयन्ताम् ॥१॥

    इस भाष्य को एडिट करें
    Top