Loading...
ऋग्वेद मण्डल - 7 के सूक्त 3 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 3/ मन्त्र 10
    ऋषिः - वसिष्ठः देवता - अग्निः छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    ए॒ता नो॑ अग्ने॒ सौभ॑गा दिदी॒ह्यपि॒ क्रतुं॑ सु॒चेत॑सं वतेम। विश्वा॑ स्तो॒तृभ्यो॑ गृण॒ते च॑ सन्तु यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥१०॥

    स्वर सहित पद पाठ

    ए॒ता । नः॒ । अ॒ग्ने॒ । सौभ॑गा । दि॒दी॒हि॒ । अपि॑ । क्रतु॑म् । सु॒ऽचेत॑सम् । व॒ते॒म॒ । विश्वा॑ । स्तो॒तृऽभ्यः॑ । गृ॒ण॒ते । च॒ । स॒न्तु॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥


    स्वर रहित मन्त्र

    एता नो अग्ने सौभगा दिदीह्यपि क्रतुं सुचेतसं वतेम। विश्वा स्तोतृभ्यो गृणते च सन्तु यूयं पात स्वस्तिभिः सदा नः ॥१०॥

    स्वर रहित पद पाठ

    एता। नः। अग्ने। सौभगा। दिदीहि। अपि। क्रतुम्। सुऽचेतसम्। वतेम। विश्वा। स्तोतृऽभ्यः। गृणते। च। सन्तु। यूयम्। पात। स्वस्तिऽभिः। सदा। नः ॥१०॥

    ऋग्वेद - मण्डल » 7; सूक्त » 3; मन्त्र » 10
    अष्टक » 5; अध्याय » 2; वर्ग » 4; मन्त्र » 5

    अन्वयः - हे अग्ने ! त्वं न एता सौभगा दिदीहि येनाऽपि वयं सुचेतसं क्रतुं वतेम स्तोतृभ्यो विश्वा गृणते चैतानि सन्तु यूयं स्वस्तिभिर्नः सदा पात ॥१०॥

    पदार्थः -
    (एता) एतानि (नः) अस्माकम् (अग्ने) पावकवद्विद्वन् राजन् (सौभगा) उत्तमैश्वर्याणां भावान् (दिदीहि) प्रकाशय (अपि) (क्रतुम्) प्रज्ञाम् (प्रचेतसम्) प्रकृष्टविद्यायुक्ताम् (वतेम) सम्भजेम। अत्र वर्णव्यत्ययेन नस्य स्थाने तः। (विश्वा) सर्वाणि (स्तोतृभ्यः) ऋत्विग्भ्यः (गृणते) स्तावकाय (च) (सन्तु) (यूयम्) (पात) रक्षत (स्वस्तिभिः) स्वास्थ्यकारिभिः सुखैः कर्मभिर्वा (सदा) (नः) अस्मान् ॥१०॥

    भावार्थः - हे राजन् ! भवान् सर्वेषां मनुष्याणां सौभाग्यानि वर्धयित्वा प्रज्ञां प्रापयतु, हे प्रजाजना ! भवन्तो राजानं राज्यं च सदैव रक्षन्त्विति ॥१०॥ अत्राऽग्निविद्वद्राजप्रजाकृत्यवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इति तृतीयं सूक्तं चतुर्थो वर्गश्च समाप्तः ॥

    इस भाष्य को एडिट करें
    Top