ऋग्वेद - मण्डल 7/ सूक्त 3/ मन्त्र 8
या वा॑ ते॒ सन्ति॑ दा॒शुषे॒ अधृ॑ष्टा॒ गिरो॑ वा॒ याभि॑र्नृ॒वती॑रुरु॒ष्याः। ताभि॑र्नः सूनो सहसो॒ नि पा॑हि॒ स्मत्सू॒रीञ्ज॑रि॒तॄञ्जा॑तवेदः ॥८॥
स्वर सहित पद पाठयाः । वा॒ । ते॒ । सन्ति॑ । दा॒शुषे॑ । अधृ॑ष्टाः । गिरः॑ । वा॒ । याभिः॑ । नृ॒ऽवतीः॑ । उ॒रु॒ष्याः । ताभिः॑ । नः॒ । सू॒नो॒ इति॑ । स॒ह॒सः॒ । नि । पा॒हि॒ । स्मत् । सू॒रीन् । ज॒रि॒तॄन् । जा॒त॒ऽवे॒दः॒ ॥
स्वर रहित मन्त्र
या वा ते सन्ति दाशुषे अधृष्टा गिरो वा याभिर्नृवतीरुरुष्याः। ताभिर्नः सूनो सहसो नि पाहि स्मत्सूरीञ्जरितॄञ्जातवेदः ॥८॥
स्वर रहित पद पाठयाः। वा। ते। सन्ति। दाशुषे। अधृष्टाः। गिरः। वा। याभिः। नृऽवतीः। उरुष्याः। ताभिः। नः। सूनो इति। सहसः। नि। पाहि। स्मत्। सूरीन्। जरितॄन्। जातऽवेदः ॥८॥
ऋग्वेद - मण्डल » 7; सूक्त » 3; मन्त्र » 8
अष्टक » 5; अध्याय » 2; वर्ग » 4; मन्त्र » 3
अष्टक » 5; अध्याय » 2; वर्ग » 4; मन्त्र » 3
विषयः - पुनः कैः काभिः काः पालनीया इत्याह ॥
अन्वयः - हे सहसस्सूनो ! जातवेदो यास्तेऽधृष्टा गिरः सन्ति वा दाशुषे हितकर्यः सन्ति याभिर्वा त्वं नृवतीरुरुष्यास्ताभिर्नोऽस्मान् सूरीञ्जरितॄन् स्मन्निपाहि ॥८॥
पदार्थः -
(याः) (वा) (ते) तव (सन्ति) (दाशुषे) दात्रे (अधृष्टाः) अधर्षणीयाः (गिरः) सुशिक्षिता वाचः (वा) (याभिः) (नृवतीः) नरो विद्यन्ते यासु प्रजासु ताः (उरुष्याः) (रक्षेः) (ताभिः) (नः) अस्मान् (सूनो) अपत्य (सहसः) बलिष्ठस्य (नि) नितराम् (पाहि) रक्ष (स्मत्) एव (सूरीन्) विदुषः (जरितॄन्) सकलविद्यास्तावकान् (जातवेदः) ज्ञातप्रज्ञः ॥८॥
भावार्थः - मनुष्या यावद्विद्याशिक्षाविनयान् गृहीत्वा[ऽन्यान्] न ग्राहयन्ति तावत् प्रजाः पालयितुं न शक्नुवन्ति यावद्धार्मिकाणां विदुषां राज्येऽधिकारा न स्युस्तावद्यथावत्प्रजापालनं दुर्घटम् ॥८॥
इस भाष्य को एडिट करें